१८

01 द्वादशगृहीतेन स्रुचम् पूरयित्वा ...{Loading}...

द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति । हुतायां यजमानो वरं दत्त्वा शिवा जपति । ये अग्नयो दिवो ये पृथिव्याः समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति जुहोति १

02 अथ विराट्क्रमैर्यजमान उपतिष्ठतेऽथर्व ...{Loading}...

अथ विराट्क्रमैर्यजमान उपतिष्ठतेऽथर्व पितुं मे गोपायान्नं प्राणेन सम्मितम् । त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्यन्वाहार्यपचनम् । नर्य प्रजां मे गोपाय मूलं लोकस्य सन्ततिम् । आत्मनो हृदयान्निर्मितां तां ते परिददाम्यहमिति गार्हपत्यम् । शंस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं तांस्ते परिददाम्यहमित्याहवनीयम् । सप्रथ सभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति सभ्यम् । अहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियं यशः परिददाम्यहमित्यावसथ्यम् । पञ्चधाग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः । ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् २

इत्यष्टादशी कण्डिका इति पञ्चमः पटलः


  1. TS I.5.3.h ↩︎ ↩︎

  2. See V.15.2. ↩︎ ↩︎

  3. Cp. MS I.6.7. ↩︎ ↩︎

  4. TB I.2.1.27. ↩︎