01 द्वादशगृहीतेन स्रुचम् पूरयित्वा …{Loading}…
द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति । हुतायां यजमानो वरं दत्त्वा शिवा जपति । ये अग्नयो दिवो ये पृथिव्याः समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति जुहोति १
थिते
- By means of the ladle (viz. Juhū) filled with twelve times-scooped ghee (the Adhvaryu) offers a full-spoon libation with a verse containing the word sapta (seven) beginning with sapta te agne samidhaḥ1 After (this libation) is offered, the sacrificer having given a boon (chosen gift) (to the Adhvaryu), mutters (the formulae mentioning) the auspicious (forms of Agni).2 Then (the Adhvaryu) offers (another) libation with ye agnayo divaḥ….3
द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति । हुतायां यजमानो वरं दत्त्वा शिवा जपति । ये अग्नयो दिवो ये पृथिव्याः समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति जुहोति १
02 अथ विराट्क्रमैर्यजमान उपतिष्ठतेऽथर्व …{Loading}…
अथ विराट्क्रमैर्यजमान उपतिष्ठतेऽथर्व पितुं मे गोपायान्नं प्राणेन सम्मितम् । त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्यन्वाहार्यपचनम् । नर्य प्रजां मे गोपाय मूलं लोकस्य सन्ततिम् । आत्मनो हृदयान्निर्मितां तां ते परिददाम्यहमिति गार्हपत्यम् । शंस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं तांस्ते परिददाम्यहमित्याहवनीयम् । सप्रथ सभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति सभ्यम् । अहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियं यशः परिददाम्यहमित्यावसथ्यम् । पञ्चधाग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः । ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् २
थिते
- Then the sacrificer stands near the fires praising with verses called Virāṭkrama1 with atharva pituṁ me…2 (near) the Dakṣiṇa-fire; with narya prajāṁ me…3 near the Gārhapatya ( fire); with śaṁsya paśūn me …[^4] (near) the Āhavanīya (-fire); with sapratha sabhāṁ me gopāya…[^5] (near) the Sabhya(-fire); with ahe budhniya mantraṁ me gopāya…[^6] (near) the Āvasathya (-fire); with pañcadhāgnīn vyakrāmad virāṭ…4 near all the fires.
अथ विराट्क्रमैर्यजमान उपतिष्ठतेऽथर्व पितुं मे गोपायान्नं प्राणेन सम्मितम् । त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्यन्वाहार्यपचनम् । नर्य प्रजां मे गोपाय मूलं लोकस्य सन्ततिम् । आत्मनो हृदयान्निर्मितां तां ते परिददाम्यहमिति गार्हपत्यम् । शंस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं तांस्ते परिददाम्यहमित्याहवनीयम् । सप्रथ सभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति सभ्यम् । अहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियं यशः परिददाम्यहमित्यावसथ्यम् । पञ्चधाग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः । ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् २
इत्यष्टादशी कण्डिका इति पञ्चमः पटलः