१७

01 ततः सभ्यावसथ्यावादधाति लौकिकमग्निमाहृत्य ...{Loading}...

ततः सभ्यावसथ्यावादधाति लौकिकमग्निमाहृत्य मथित्वाहवनीयाद्वा यथर्ष्याधानेन १

02 अग्न आयूंषि पवसेऽग्ने ...{Loading}...

अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः । अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयमिति तिस्र आश्वत्थ्यः समिध एकैकस्मिन्नादधाति २

03 आहवनीये वा तिस्रः ...{Loading}...

आहवनीये वा तिस्रः ३

04 समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् ...{Loading}...

समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः । वयं नाम प्रब्रवामा घृतेनास्मिन्यज्ञे धारयामा मनोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् । चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेशेति शमीमय्यो घृतान्वक्तास्तिसृभिस्तिस्र एकैकस्मिन्नादधाति । आहवनीये वा तिस्रः ४

05 एवन् नानावृक्षीयाः प्रेद्धो ...{Loading}...

एवं नानावृक्षीयाः । प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं समिधमादधाति । विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीम् । तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् ५

06 ततस्तूष्णीमग्निहोत्रञ् जुहोति ...{Loading}...

ततस्तूष्णीमग्निहोत्रं जुहोति ६

07 अपि वा द्वादशगृहीतेन ...{Loading}...

अपि वा द्वादशगृहीतेन स्रुचं पूरयित्वा प्रजापतिं मनसा ध्यायञ्जुहोति । साग्निहोत्रस्य स्थाने भवति ७

08 यास्ते अग्ने घोरास्तनुवस्ताभिरमुङ् ...{Loading}...

यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय प्रहिणोति ताभिरेनं नितमयति । अरण्येऽनुवाक्या भवन्ति ८

इति सप्तदशी कण्डिका


  1. See V.11.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See V.4.7-8. ↩︎ ↩︎ ↩︎ ↩︎

  3. MS I.5.1. ↩︎ ↩︎ ↩︎