१६

01 आनशे व्यानशे सर्वमायुर्व्यानशे …{Loading}…

आनशे व्यानशे सर्वमायुर्व्यानशे । अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इत्याधीयमानमभिमन्त्रयते यजमानः १

02 व्याहृतीः सर्पराज्ञीर्घर्मशिरांसीति सर्वेष्ठाधानेषु …{Loading}…

व्याहृतीः सर्पराज्ञीर्घर्मशिरांसीति सर्वेष्ठाधानेषु यजमानोऽनुवर्तयते येनयेनादधाति २

03 नाहितमनभिहुतमग्निमुपस्पृशति आज्येनौषधीभिश्च शमयितव्यः …{Loading}…

नाहितमनभिहुतमग्निमुपस्पृशति । आज्येनौषधीभिश्च शमयितव्यः ३

04 या ते अग्ने …{Loading}…

या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसि तां त एतेनावयजे स्वाहा । या ते अग्नेऽप्सु पावका प्रिया तनूर्यान्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसि तां त एतेनावयजे स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये या बृहति या जागते छन्दसि तां त एतेनावयजे स्वाहेत्येतैः प्रतिमन्त्रमाज्यमोषधीश्च जुहोति ४

05 समिध आदधातीत्येके …{Loading}…

समिध आदधातीत्येके ५

06 ब्रह्माग्न्याधेये सामानि गायति …{Loading}…

ब्रह्माग्न्याधेये सामानि गायति ६

07 प्रतिषिद्धान्येकेषाम् …{Loading}…

प्रतिषिद्धान्येकेषाम् ७

08 व्याहृतीभिरेवोद्गीथम् भवतीति वाजसनेयकम् …{Loading}…

व्याहृतीभिरेवोद्गीथं भवतीति वाजसनेयकम् ८

इति षोडशी कण्डिका इति चतुर्थः पटलः


  1. TB I.2.1.24. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB I.2.1.20. ↩︎ ↩︎