१५

01 कमण्डलुपद आदधीतेति बह्वृचब्राह्मणम् ...{Loading}...

कमण्डलुपद आदधीतेति बह्वृचब्राह्मणम् । अजस्य पद आदधीतेति वाजसनेयकम् १

02 अथ यजमानः शिवा ...{Loading}...

अथ यजमानः शिवा जपति ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ प्रम्वी च प्रभूतिश्च ते मा शिवतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वादध इति २

03 यास्ते अग्ने घोरास्तनुवस्ताभिरमुङ् ...{Loading}...

यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय प्रहिणोति ताभिरेनं पराभावयति ३

04 अरण्येऽनुवाक्या भवन्ति ...{Loading}...

अरण्येऽनुवाक्या भवन्ति ४

05 यदिदन् दिवो यददः ...{Loading}...

यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी सम्बभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः शम्भूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्र्य पुरस्तात्प्रत्यङ् तिष्ठन्नाहवनीयमादधाति ५

06 बृहति गीयमाने श्यैतवारवन्तीययोर्यज्ञायज्ञीये ...{Loading}...

बृहति गीयमाने श्यैतवारवन्तीययोर्यज्ञायज्ञीये च यथर्ष्याधानेन सर्वाभिर्व्याहृतीभिः सर्वाभिः सर्पराज्ञीभिस्तृतीयेन च घर्मशिरसा यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः सम्भूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्ने । अपानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः ह्पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके । यो नो अग्ने निष्ट्यो योऽनिष्ट्यो ऽभिदासतीदमहं तं त्वयाभिनिदधामीति सम्भारेषु निदधाति ६

इति पञ्चदशी कण्डिका


  1. An unknown animal. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. This view is not found in the ŚB known to us. ↩︎ ↩︎ ↩︎ ↩︎

  3. Grāmagāna I.1.30. ↩︎

  4. Araṇyagāna I.2.25. ↩︎

  5. See V.11.7. ↩︎

  6. See V.12.1. ↩︎