01 कमण्डलुपद आदधीतेति बह्वृचब्राह्मणम् …{Loading}…
कमण्डलुपद आदधीतेति बह्वृचब्राह्मणम् । अजस्य पद आदधीतेति वाजसनेयकम् १

02 अथ यजमानः शिवा …{Loading}…
अथ यजमानः शिवा जपति ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ प्रम्वी च प्रभूतिश्च ते मा शिवतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वादध इति २
थिते
- At this stage the sacrificer mutters the auspicious (forms of Agni) with ye te agne śive tanvau….1
अथ यजमानः शिवा जपति ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ प्रम्वी च प्रभूतिश्च ते मा शिवतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वादध इति २
03 यास्ते अग्ने घोरास्तनुवस्ताभिरमुङ् …{Loading}…
यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय प्रहिणोति ताभिरेनं पराभावयति ३

04 अरण्येऽनुवाक्या भवन्ति …{Loading}…
अरण्येऽनुवाक्या भवन्ति ४
थिते
- There are also Araṇye’nuvākya (chapters from the Āraṇyaka) (which the sacrificer should recite).1
अरण्येऽनुवाक्या भवन्ति ४
05 यदिदन् दिवो यददः …{Loading}…
यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी सम्बभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः शम्भूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्र्य पुरस्तात्प्रत्यङ् तिष्ठन्नाहवनीयमादधाति ५

06 बृहति गीयमाने श्यैतवारवन्तीययोर्यज्ञायज्ञीये …{Loading}…
बृहति गीयमाने श्यैतवारवन्तीययोर्यज्ञायज्ञीये च यथर्ष्याधानेन सर्वाभिर्व्याहृतीभिः सर्वाभिः सर्पराज्ञीभिस्तृतीयेन च घर्मशिरसा यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः सम्भूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्ने । अपानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः ह्पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके । यो नो अग्ने निष्ट्यो योऽनिष्ट्यो ऽभिदासतीदमहं तं त्वयाभिनिदधामीति सम्भारेषु निदधाति ६
थिते
- While the Br̥hat1, Śyeta2 Vāravantīya3 and Yajñāyajñiya4 (melodies are) being sung, with the placing formula in accordance with the sages,5 with all the sacred utterances,6 with all the Sārparājñī-verses, and with the third Gharmaśiras-formula, and with the verses beginning with yāste tanuvo jātavedaḥ, apānaṁ tvāmr̥te, agne samrāḍajaikapādāhavanīya, he places (the fuel-stick from the Gārhapatya) on the materials (on the place of the Āhavanīya).
बृहति गीयमाने श्यैतवारवन्तीययोर्यज्ञायज्ञीये च यथर्ष्याधानेन सर्वाभिर्व्याहृतीभिः सर्वाभिः सर्पराज्ञीभिस्तृतीयेन च घर्मशिरसा यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः सम्भूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्ने । अपानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः ह्पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके । यो नो अग्ने निष्ट्यो योऽनिष्ट्यो ऽभिदासतीदमहं तं त्वयाभिनिदधामीति सम्भारेषु निदधाति ६
इति पञ्चदशी कण्डिका