१४

01 यो ब्राह्मणो राजन्यो ...{Loading}...

यो ब्राह्मणो राजन्यो वैश्यः शूद्रो वासुर इव बहुपुष्टः स्यात्तस्य गृहादाहृत्यादध्यात्पुष्टिकामस्य १

02 गृहे त्वस्य ततो ...{Loading}...

गृहे त्वस्य ततो नाश्नीयात् २

03 अम्बरीषादन्नकामस्य वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ...{Loading}...

अम्बरीषादन्नकामस्य वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ३

04 वामदेव्यमभिगायत आहवनीय उद्घ्रियमाणे ...{Loading}...

वामदेव्यमभिगायत आहवनीय उद्घ्रियमाणे ४

05 प्राचीमनु प्रदिशमित्येषा विक्रमस्व ...{Loading}...

प्राचीमनु प्रदिशमित्येषा । विक्रमस्व महाँ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि प्रजया च धनेन च । इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति ५

06 दक्षिणतो ब्रह्मा रथं ...{Loading}...

दक्षिणतो ब्रह्मा रथं रथचक्रं वा वर्तयति यावच्चक्रं त्रिः परिवर्तते ६

07 षट्कृत्वो द्वेष्यस्य ...{Loading}...

षट्कृत्वो द्वेष्यस्य ७

08 जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति ...{Loading}...

जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम् । न कर्णदघ्नमत्युद्गृह्णाति ८

09 तद्युद्गृह्य निगृह्णीयान्मुखेन सम्मायादध्यात् ...{Loading}...

तद्युद्गृह्य निगृह्णीयान्मुखेन सम्मायादध्यात् ९

10 नाग्निमादित्यञ् च व्यवेयात् ...{Loading}...

नाग्निमादित्यं च व्यवेयात् १०

11 दक्षिणतः परिगृह्य हरति ...{Loading}...

दक्षिणतः परिगृह्य हरति ११

12 अर्धाध्वे यजमानो वरन् ...{Loading}...

अर्धाध्वे यजमानो वरं ददाति १२

13 अर्धाध्वे हिरण्यन् निधाय ...{Loading}...

अर्धाध्वे हिरण्यं निधाय नाकोऽसि ब्रध्नः प्रतिष्ठा सङ्क्रमण इत्यतिक्रामति १३

14 प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन ...{Loading}...

प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदोत्तरतः सम्भारानाक्रमयति यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन्निति १४

15 प्रदक्षिणमावर्तयित्वा यदक्रन्द इति ...{Loading}...

प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति १५

16 पुरस्तात्प्रत्यञ्चमश्वन् धारयति ...{Loading}...

पुरस्तात्प्रत्यञ्चमश्वं धारयति १६

17 पूर्ववाडश्वो भवति ...{Loading}...

पूर्ववाडश्वो भवति १७

18 तदभावेऽनङ्घान्पूर्ववाडेतानि कर्माणि करोतीति ...{Loading}...

तदभावेऽनङ्घान्पूर्ववाडेतानि कर्माणि करोतीति पैङ्गायनिब्राह्मणं भवति १८

इति चतुर्दशी कण्डिका


  1. For this Sūtra cf. KS VIII. 12. MS 1.6.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS XIX.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. The Adhvaryu is holding up the Āhavanīya fire since V.13.7. For this Sūtra cf. TB I.1.8.2. ↩︎ ↩︎

  4. The sacrificer and the priests. ↩︎