१३

01 अर्धोदिते सूर्य आहवनीयमादधाति ...{Loading}...

अर्धोदिते सूर्य आहवनीयमादधाति १

02 उदिते ब्रह्मवर्चसकामस्य ...{Loading}...

उदिते ब्रह्मवर्चसकामस्य २

03 गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति सिकताश्चोपयमनीरुपकल्पयते ...{Loading}...

गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति सिकताश्चोपयमनीरुपकल्पयते ३

04 तमुद्यच्छत्योजसे बलाय त्वोद्यच्छे ...{Loading}...

तमुद्यच्छत्योजसे बलाय त्वोद्यच्छे वृषणे श्रुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः । यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि । दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः । यत्रयत्र जातवेदः सम्बभूथ ततो नो अग्ने जुषमाण एहि । उदु त्वा विश्वे देवा इत्येताभिश्चतसृभिः ४

05 उपरीवाग्निमुद्यच्छति ...{Loading}...

उपरीवाग्निमुद्यच्छति ५

06 उद्यतमुपयतन् धारयति ...{Loading}...

उद्यतमुपयतं धारयति ६

07 अथाश्वस्य दक्षिणे कर्णे ...{Loading}...

अथाश्वस्य दक्षिणे कर्णे यजमानमग्नितनूर्वाचयति या वजिन्नग्नेः पशुषु पवमाना प्रिया तनूस्तामावह या वजिन्नग्नेरप्सु पावका प्रिया तनूस्तामावह या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावहेति । धारयत्येवाग्निम् ७

08 अथाग्नीध्रो लौकिकमग्निमाहृत्य मथित्वा ...{Loading}...

अथाग्नीध्रो लौकिकमग्निमाहृत्य मथित्वा वोर्ध्वज्ञुरासीनो दक्षिणमग्निमादधाति यज्ञायज्ञीये गीयमाने यथर्ष्याधानेन द्वितीयया व्याहृत्या तिसृभिः सर्पराज्ञीभिर्द्वितीयेन च घर्मशिरसा । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः संभूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्ने । व्यानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्नेऽन्नपा मयोभुव सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके । यो नो अग्ने निष्ठ्यो योऽनिष्ठ्योऽभिदासतीदमहं तं त्वयाभिनिदधामीति सम्भारेषु निदधाति ८

इति त्रयोदशी कण्डिका


  1. Cf. TB I.1.4.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For this horse sec V.10.9. ↩︎ ↩︎ ↩︎

  3. TS IV.2.3. ↩︎