११

01 अत्र चतुर्होतॄन्यजमानं वाचयति ...{Loading}...

अत्र चतुर्होतॄन्यजमानं वाचयति १

02 अजन्नग्निः पूर्वः पूर्वेभ्यः ...{Loading}...

अजन्नग्निः पूर्वः पूर्वेभ्यः पवमानः शुचिः पावक ईड्य इति जातमभिमन्त्रयते २

03 जाते यजमानो वरन् ...{Loading}...

जाते यजमानो वरं ददाति ३

04 गौर्वै वरोऽतिवरोऽन्यो धेनुर्वरोऽतिवरोऽन्योऽनद्घान्वरोऽतिवरोऽन्यः ...{Loading}...

गौर्वै वरोऽतिवरोऽन्यो धेनुर्वरोऽतिवरोऽन्योऽनद्घान्वरोऽतिवरोऽन्यः पष्ठौही वरो ऽतिवरोऽन्यः ४

05 जातं यजमानोऽभिप्राणिति प्रजापतेस्त्वा ...{Loading}...

जातं यजमानोऽभिप्राणिति प्रजापतेस्त्वा प्राणेनाभिप्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शतं शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्यायेति ५

06 अजीजनन्नमृतम् मर्त्यासोऽस्रेमाणन् तरणिं ...{Loading}...

अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभिसंरभन्तामिति जातमञ्जलिनाभिगृह्य सम्राडसि विराडसि सारस्वतौ त्वोत्सौ समिन्धातामन्नादं त्वान्नपत्यायेत्युपसमिध्याथैनं प्राञ्चमुद्धृत्यासीनः सर्वेषां मन्त्राणामन्तेन रथन्तरे गीयमाने यज्ञायज्ञीये च यथर्ष्याधानेन प्रथमया व्याहृत्या द्वाभ्यां वा प्रथमाभ्यां च सर्पराज्ञीभ्यां प्रथमेन च घर्मशिरसा ६

07 भृगूणान् त्वा देवानां ...{Loading}...

भृगूणां त्वा देवानां व्रतपते व्रतेनादधामीति भार्गवस्यादध्यात् । अङ्गिरसां त्वा देवानां व्रतपते व्रतेनादधामीति यो ब्राह्मण आङ्गिरसः स्यात् । आदित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्यन्यासां ब्राह्मणीनां प्रजानाम् । वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राज्ञः । इन्द्रस्य त्वेन्द्रियेण व्रतपते व्रतेनादधामीति राजन्यस्य । मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामीति वैश्यस्य । ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामीति रथकारस्येति यथर्ष्याधानानि ७

इत्येकादशी कण्डिका


  1. TA III.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. These formulae in this form occur here only. ↩︎

  3. Contrast V.15.5 (and V.13.8). ↩︎

  4. Aranyagāna II.1.21. ↩︎

  5. Grāmageyagāna I.2.25. ↩︎

  6. viz. bhuḥ. ↩︎

  7. bhuḥ, bhuvaḥ cf. TB I.1.5.2. ↩︎

  8. TS I.5.3.a-b. ↩︎

  9. TB I.1.7.1. ↩︎