01 ऋतं स्तृणामि पुरीषम् …{Loading}…
ऋतं स्तृणामि पुरीषं पृथिव्यामृतेऽध्यग्निमादधे सत्येऽध्यग्निमादध इत्यायतनेषु सम्भाराननुव्यूहति १
थिते
- With r̥tam str̥ṇāmi purīṣam… (the Adhvaryu) spreads the materials on the places of fires.
ऋतं स्तृणामि पुरीषं पृथिव्यामृतेऽध्यग्निमादधे सत्येऽध्यग्निमादध इत्यायतनेषु सम्भाराननुव्यूहति १
02 सं या वः …{Loading}…
सं या वः प्रियास्तनुव इत्येषा । सं वः सृजामि हृदयानि संसृष्टं मनो अस्तु वः । संसृष्टः प्राणो अस्तु व इति वानस्पत्यान्संसृज्य सिकतावन्निवपतीतः प्रथम जज्ञे अग्निरित्येतया २
सं या वः प्रियास्तनुव इत्येषा । सं वः सृजामि हृदयानि संसृष्टं मनो अस्तु वः । संसृष्टः प्राणो अस्तु व इति वानस्पत्यान्संसृज्य सिकतावन्निवपतीतः प्रथम जज्ञे अग्निरित्येतया २
03 यास्ते शिवास्तनुवो जातवेदो …{Loading}…
यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम् । ताभिः सम्भूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्न इति गार्हपत्यायतने सौवर्णं हिरण्यशकलमुत्तरतः सम्भारेषूपास्यति ३
थिते
- With yāste śivāstanuvaḥ…1 he throws a piece of gold on the place of Gārhapatya, to the north near the materials.
यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम् । ताभिः सम्भूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्न इति गार्हपत्यायतने सौवर्णं हिरण्यशकलमुत्तरतः सम्भारेषूपास्यति ३
04 चन्द्रमग्निञ् चन्द्ररथं हरित्वचं …{Loading}…
चन्द्रमग्निं चन्द्ररथं हरित्वचं वैश्वानरमप्सुषदं सुवर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुरित्युपास्तमभिमन्त्रयते । द्वेष्याय रजतं प्रयच्छति ४
थिते
- With candramagnim… he addresses (the gold which is) thrown near the materials; he gives the silver to the enemy.
चन्द्रमग्निं चन्द्ररथं हरित्वचं वैश्वानरमप्सुषदं सुवर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुरित्युपास्तमभिमन्त्रयते । द्वेष्याय रजतं प्रयच्छति ४
05 यदि द्वेष्यन् नाधिगच्छेद्यान् …{Loading}…
यदि द्वेष्यं नाधिगच्छेद्यां दिशं द्वेष्यः स्यात्तेन निरस्येत् ५
थिते
- If he does not get an enemy, he should throw (the silver) towards the direction in which there may be the enemy.
यदि द्वेष्यं नाधिगच्छेद्यां दिशं द्वेष्यः स्यात्तेन निरस्येत् ५
06 एवं सर्वेषूपास्य करोति …{Loading}…
एवं सर्वेषूपास्य करोति ६
थिते
- In the same manner he acts after having thrown (a piece of gold) near (the materials) in all (the places of fires).
एवं सर्वेषूपास्य करोति ६
07 ब्राह्मौदनिकाद्भस्मापोह्य तस्मिञ्छमीगर्भादग्निम् मन्थति …{Loading}…
ब्राह्मौदनिकाद्भस्मापोह्य तस्मिञ्छमीगर्भादग्निं मन्थति ७
ब्राह्मौदनिकाद्भस्मापोह्य तस्मिञ्छमीगर्भादग्निं मन्थति ७
08 उद्यत्सु रश्मिषु दशहोत्रारणी …{Loading}…
उद्यत्सु रश्मिषु दशहोत्रारणी समवदधाति ८
उद्यत्सु रश्मिषु दशहोत्रारणी समवदधाति ८
09 सहाग्नेऽग्निना जायस्व सह …{Loading}…
सहाग्नेऽग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह पशुभिः सह ब्रह्मवर्चसेनेत्युपतिष्ठत्यश्वेऽग्निं मन्थति ९
थिते
- While a horse is standing near, he churns out fire with sahāgne’gninā jāyasva…1
सहाग्नेऽग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह पशुभिः सह ब्रह्मवर्चसेनेत्युपतिष्ठत्यश्वेऽग्निं मन्थति ९
10 श्वेतोऽश्वोऽविक्लिन्नाक्षो भवति रोहितो …{Loading}…
श्वेतोऽश्वोऽविक्लिन्नाक्षो भवति रोहितो वासितजानुरपि वा य एव कश्चित्साण्डः १०
थिते
- The horse should be white, one whose eyes are not flowing, or red with black knees or any uncastrated (horse).
श्वेतोऽश्वोऽविक्लिन्नाक्षो भवति रोहितो वासितजानुरपि वा य एव कश्चित्साण्डः १०
11 मथ्यमाने शक्तेः साङ्कृतेः …{Loading}…
मथ्यमाने शक्तेः साङ्कृतेः साम गायति धूमे जाते गाथिनः कौशिकस्य । अरण्योर्निहितो जातवेदा इति च ११
मथ्यमाने शक्तेः साङ्कृतेः साम गायति धूमे जाते गाथिनः कौशिकस्य । अरण्योर्निहितो जातवेदा इति च ११
12 उपावरोह जातवेद इति …{Loading}…
उपावरोह जातवेद इति निर्वर्त्यमानमभिमन्त्रयते १२
थिते
- With upāvaroha jātavedaḥ…1 he addresses the fire while it is being produced.
उपावरोह जातवेद इति निर्वर्त्यमानमभिमन्त्रयते १२
इति दशमी कण्डिका