०९

01 मयि गृह्णाम्यग्रे अग्निं ...{Loading}...

मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इत्युभौ जपतः । अपेत वीतेति गार्हपत्यायतनमुद्धत्य शं नो देवीरभिष्टय इत्यद्भिरवोक्षति १

02 एवन् दक्षिणाग्नेराहवनीयस्य सभ्यावसथ्ययोश्च ...{Loading}...

एवं दक्षिणाग्नेराहवनीयस्य सभ्यावसथ्ययोश्च २

03 एवमनुपूर्वण्येवैष्टत ऊर्ध्वङ् कर्माणि ...{Loading}...

एवमनुपूर्वण्येवैष्टत ऊर्ध्वं कर्माणि क्रियन्ते ३

04 सिकतानामर्धन् द्वैधम्म् विभज्यार्धङ् ...{Loading}...

सिकतानामर्धं द्वैधम्म् विभज्यार्धं गार्हपत्यायतने निवपत्यर्धं दक्षिणाग्नेः । अर्धं त्रैधं विभज्य पूर्वेषु ४

05 एतेनैव कल्पेन सर्वान्पार्थिवान्निवपति ...{Loading}...

एतेनैव कल्पेन सर्वान्पार्थिवान्निवपति ५

06 अग्नेर्भस्मासीति सिकता निवपति ...{Loading}...

अग्नेर्भस्मासीति सिकता निवपति । सञ्ज्ञानमित्यूषान् ६

07 तान्निवपन्यददश्चन्द्रमसि कृष्णन् तदिहास्त्विति ...{Loading}...

तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ७

08 उदेह्यग्ने अधि मातुः ...{Loading}...

उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतः सधस्थात् । आखुं त्वा ये दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपामित्याखुकरीषम् । यत्पृथिव्या अनामृतं सम्बभूव त्वे सचा । तदग्निरग्नयेऽददात्तस्मिन्नाधीयतामयमिति गार्हपत्यायतने वल्मीकवपां निवपति ८

09 यदन्तरिक्षस्येति दक्षिणाग्नेः यद्दिव ...{Loading}...

यदन्तरिक्षस्येति दक्षिणाग्नेः । यद्दिव इति पूर्वेषु ९

10 उत्समुद्रान्मधुमाँ ऊर्मिरागात्साम्राज्याय प्रतरान् ...{Loading}...

उत्समुद्रान्मधुमाँ ऊर्मिरागात्साम्राज्याय प्रतरां दधानः । अमी च ये मघवानो वयं चेषमूर्जं मधमत्सम्भरेमेति सूदम् । इयत्यग्र आसीरिति वराहविहतम् १०

11 अदो देवी प्रथमाना ...{Loading}...

अदो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता व्यसर्पो महित्वा । अदृंहथाः शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्र इति शर्कराः । द्वेष्यं च मनसा धायति ११

इति नवमी कण्डिका


  1. See IV.1.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. viz. Āhavanīya, Sabhya and Āvasathya. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.2.4.a. ↩︎ ↩︎ ↩︎

  4. TB I.2.1.1. ↩︎