०८

01 अथ यजमानो व्रतमुपैति ...{Loading}...

अथ यजमानो व्रतमुपैति वाचं च यच्छत्यनृतसत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति १

02 वीणातूणवेनैनमेतां रात्रिञ् जागरयन्ति ...{Loading}...

वीणातूणवेनैनमेतां रात्रिं जागरयन्ति २

03 अपि वा न ...{Loading}...

अपि वा न जागर्ति न वाचं यच्छति ३

04 शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते ...{Loading}...

शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम् । उभयोर्लोकयोरृद्ध्वाति मृत्युं तराम्यहमित्येतया ४

05 तस्मिन्नुपव्युषमरणी निष्टपति जातवेदो ...{Loading}...

तस्मिन्नुपव्युषमरणी निष्टपति जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूः । अयं ते योनिरृत्विय इत्येताभ्याम् ५

06 अग्नी रक्षांसि सेधति ...{Loading}...

अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्य इत्यरणी अभिमन्त्र्य मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामित्यरणी आह्रियमाणे यजमानः प्रतीक्षते ६

07 दोह्या च ते ...{Loading}...

दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामीति यजमानाय प्रयच्छति ७

08 आरोहतन् दशतं शक्वरीर्ममर्तेनाग्न ...{Loading}...

आरोहतं दशतं शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तरां समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्यर्त्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे । तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनिष्येथे ते मा प्रजाते प्रजनयिष्यथः । क्प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते यजमानः ८

इत्यष्टमी कण्डिका इति द्वितीयः पटलः


  1. TB I.2.1.15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB I.2.1.13. ↩︎ ↩︎

  3. The word pratigr̥hya seems to be repeated unnecessarily. ↩︎