01 अथ यजमानो व्रतमुपैति …{Loading}…
अथ यजमानो व्रतमुपैति वाचं च यच्छत्यनृतसत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति १
थिते
- Then the sacrificer enters into vow and restrains his speech with anr̥tāt satyamupaimi mānuṣād daivyam upaimi daivīṁ vācaṁ yacchāmi.1
अथ यजमानो व्रतमुपैति वाचं च यच्छत्यनृतसत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति १
02 वीणातूणवेनैनमेतां रात्रिञ् जागरयन्ति …{Loading}…
वीणातूणवेनैनमेतां रात्रिं जागरयन्ति २
थिते
- They remain awake on this night by means of lute and flute.
वीणातूणवेनैनमेतां रात्रिं जागरयन्ति २
03 अपि वा न …{Loading}…
अपि वा न जागर्ति न वाचं यच्छति ३
थिते
- Or, rather, he does not remain awake, does not restrain speech.
अपि वा न जागर्ति न वाचं यच्छति ३
04 शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते …{Loading}…
शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम् । उभयोर्लोकयोरृद्ध्वाति मृत्युं तराम्यहमित्येतया ४
थिते
- On this night he remains enkindling the (Brāhmaudanika) fire by means of pieces (of wood) with this (verse beginning with) ubhau lokau sanemaham.1
शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम् । उभयोर्लोकयोरृद्ध्वाति मृत्युं तराम्यहमित्येतया ४
05 तस्मिन्नुपव्युषमरणी निष्टपति जातवेदो …{Loading}…
तस्मिन्नुपव्युषमरणी निष्टपति जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूः । अयं ते योनिरृत्विय इत्येताभ्याम् ५
थिते
- At the time of that dawn, (the Adhvaryu) heats the churning sticks with these (verses beginning with) jātavedo bhuvanasya retaḥ and ayam te yoniḥ.
तस्मिन्नुपव्युषमरणी निष्टपति जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूः । अयं ते योनिरृत्विय इत्येताभ्याम् ५
06 अग्नी रक्षांसि सेधति …{Loading}…
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्य इत्यरणी अभिमन्त्र्य मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामित्यरणी आह्रियमाणे यजमानः प्रतीक्षते ६

07 दोह्या च ते …{Loading}…
दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामीति यजमानाय प्रयच्छति ७
थिते
- With dohyā ca te dugdhabhr̥ccorvarī te…1 (the Adhvaryu) gives the churning sticks to the sacrificer.
दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामीति यजमानाय प्रयच्छति ७
08 आरोहतन् दशतं शक्वरीर्ममर्तेनाग्न …{Loading}…
आरोहतं दशतं शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तरां समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्यर्त्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे । तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनिष्येथे ते मा प्रजाते प्रजनयिष्यथः । क्प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते यजमानः ८

इत्यष्टमी कण्डिका इति द्वितीयः पटलः