०७

01 समित्सु तिस्रो वत्सतरीर्ददाति …{Loading}…

समित्सु तिस्रो वत्सतरीर्ददाति १

02 प्राश्नन्ति ब्राह्मणा ओदनम् …{Loading}…

प्राश्नन्ति ब्राह्मणा ओदनम् २

03 प्राशितवद्भ्यः समानं वरन् …{Loading}…

प्राशितवद्भ्यः समानं वरं ददाति ३

04 यस्मिन्नक्षत्रेऽग्निमाधास्वन्स्यात्तस्मिन्संवत्सरे पुरस्तादेताः समिध …{Loading}…

यस्मिन्नक्षत्रेऽग्निमाधास्वन्स्यात्तस्मिन्संवत्सरे पुरस्तादेताः समिध आदध्याद्द्वादशाहे द्व्यहे त्र्य ह एकाहे वा ४

05 आधेयास्त्वेवाग्निमादधानेन …{Loading}…

आधेयास्त्वेवाग्निमादधानेन ५

06 अथ व्रतञ् चरति …{Loading}…

अथ व्रतं चरति न मांसमश्नाति न स्त्रियमुपैति नास्याग्निं गृहाद्धरन्ति नान्यत आहरन्ति ६

07 ब्राह्मौदनिकेन संवत्सरमासीत …{Loading}…

ब्राह्मौदनिकेन संवत्सरमासीत ७

08 औपासनश्चेदाहित एतस्मिन्नस्याग्निकर्माणि क्रियन्ते …{Loading}…

औपासनश्चेदाहित एतस्मिन्नस्याग्निकर्माणि क्रियन्ते ८

09 न प्रयायात् …{Loading}…

न प्रयायात् ९

10 नानुगच्छेत् …{Loading}…

नानुगच्छेत् १०

11 यदि प्रयायादनु वा …{Loading}…

यदि प्रयायादनु वा गच्छेद्ब्रह्मौदनं पक्त्वैतयैवावृता समिध आदध्यात् ११

12 यद्येनं संवत्सरेऽग्न्याधेयन् नोपनमेद्ब्रह्मौदनम् …{Loading}…

यद्येनं संवत्सरेऽग्न्याधेयं नोपनमेद्ब्रह्मौदनं पक्त्वा समिध आधाय यदैनमुपनमेदथादधीत १२

13 तस्य याथाकामी भरणकल्पानाम् …{Loading}…

तस्य याथाकामी भरणकल्पानाम् १३

14 द्वादशाहञ् चरेदेकाहं वा …{Loading}…

द्वादशाहं चरेदेकाहं वा १४

15 श्व आधास्यमानः पुनर्ब्रह्मौदनम् …{Loading}…

श्व आधास्यमानः पुनर्ब्रह्मौदनं पचति १५

16 योऽस्याग्निमाधास्यन्स्यात्स एतां रात्रिं …{Loading}…

योऽस्याग्निमाधास्यन्स्यात्स एतां रात्रिं व्रतं चरति न मांसमश्नाति न स्त्रियमुपैति १६

17 प्रजा अग्ने संवासयाशाश्च …{Loading}…

प्रजा अग्ने संवासयाशाश्च पशुभिः सह । राष्ट्राण्यस्मा आधेहि यान्यासन्सवितुः सव इत्युत्तरेण गार्हपत्यायतनं कल्माषमजं बध्नाति १७

इति सप्तमी कण्डिका


  1. Of which earlier they had taken only three morsels. See V.5.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS I.6.12. ↩︎ ↩︎

  3. i.e. to the place where Gārhapatya is going to be established. ↩︎