०६

01 चित्रियादश्वत्थात्सम्भृता बृहत्यः शरीरमभिसंस्कृता ...{Loading}...

चित्रियादश्वत्थात्सम्भृता बृहत्यः शरीरमभिसंस्कृता स्थ । प्रजापतिना यज्ञमुखेन सम्मितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्या इति १

02 अथादधाति घृतवतीभिराग्नेयीभिर्गायत्रीभिर्ब्राह्मणस्य त्रिष्टुग्भी ...{Loading}...

अथादधाति घृतवतीभिराग्नेयीभिर्गायत्रीभिर्ब्राह्मणस्य त्रिष्टुग्भी राजन्यस्य जगतीभिर्वैश्यस्य २

03 समिधाग्निन् दुवस्यतेत्यषा उप ...{Loading}...

समिधाग्निं दुवस्यतेत्यषा । उप त्वाग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्येति ब्राह्मणस्य । समिध्यमानः प्रथमो नु धर्मः समक्तुभिरज्यते विश्ववारः । शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर्यजथाय देवान् । घृतप्रतीको घृतयोनिरग्निर्घृतैः समिद्धो घृतमस्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्सुयजा यक्षि देवान् । आयुर्दा अग्न इति राजन्यस्य । त्वामग्ने समिधानं यविष्ठ देवा दूतं चक्रिरे हव्यवाहम् । उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्वति । त्वामग्ने प्रदिव आहुतं घृतेन सुम्नायवः सुषमिधा समीधिरे । स वावृधान ओषधीभिरुक्षित उरु ज्रयांसि पार्थिवा वितिष्ठसे । घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते । इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियमिति वैश्यस्य ३

इति षष्ठी कण्डिका


  1. See V. 5.10. ↩︎ ↩︎ ↩︎