०५

01 अपरेण ब्राह्मौदनिकं लोहिते ...{Loading}...

अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि पाजके वा निशायां ब्रह्मौदनं चतुःशरावं निर्वपति १

02 देवस्य त्वेत्यनुद्रुत्य ब्रह्मणे ...{Loading}...

देवस्य त्वेत्यनुद्रुत्य ब्रह्मणे प्राणाय जुष्टं निर्वपामीति प्रथममपानायेति द्वितीयं व्यानायेति तृतीयं ब्रह्मणे जुष्टमिति चतुर्थम् २

03 तूष्णीं वा सर्वाणि ...{Loading}...

तूष्णीं वा सर्वाणि ३

04 चतुर्षूदपात्रेषु पचति ...{Loading}...

चतुर्षूदपात्रेषु पचति ४

05 न प्रक्षालयति न ...{Loading}...

न प्रक्षालयति न प्रस्रावयति ५

06 क्षीरे भवतीत्येके ...{Loading}...

क्षीरे भवतीत्येके ६

07 जीवतण्डुलमिव श्रपयतीति विज्ञायते ...{Loading}...

जीवतण्डुलमिव श्रपयतीति विज्ञायते ७

08 दर्व्या ब्रह्मौदनादुद्धृत्य प्र ...{Loading}...

दर्व्या ब्रह्मौदनादुद्धृत्य प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान्यजेहेह्यानिति जुहोत्यभि वा मन्त्रयते ८

09 चतुर्धा ब्रह्मौदनं व्युद्धृत्य ...{Loading}...

चतुर्धा ब्रह्मौदनं व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य कर्षन्ननुच्छिन्दंश्चतुर्भ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति ९

10 अपात्ताः प्रथमे पिण्डा ...{Loading}...

अपात्ताः प्रथमे पिण्डा भवन्त्यप्रतिहताः पाणयः । अथ ब्रह्मौदनशेषं सङ्कृष्य तस्मिन्नाज्यशेषमानीय तस्मिंश्चित्रियस्याश्वत्थस्य तिस्रः समिध आर्द्राः सपलाशाः प्रादेशमात्र्यः स्तिभिगवत्यो विवर्तयति १०

इति पञ्चमी कण्डिका


  1. Cf. MS I.6.11; TB I.1.9; KS VII.1.5. ↩︎ ↩︎ ↩︎ ↩︎

  2. See MS I.6.12. ↩︎

  3. Of a village etc. ↩︎