01 अपरेण ब्राह्मौदनिकं लोहिते …{Loading}…
अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि पाजके वा निशायां ब्रह्मौदनं चतुःशरावं निर्वपति १
थिते
- At night, to the west of the Brahmaudanika(-fire), on the red bull’s hide (spread) with its neck to the east and with its hairy side upwards, or in a basket made of bamboo, (the Adhvaryu) pours out four panfuls of rice-grains for the sake of rice-pap to be prepared for the Brāhmins.1
अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि पाजके वा निशायां ब्रह्मौदनं चतुःशरावं निर्वपति १
02 देवस्य त्वेत्यनुद्रुत्य ब्रह्मणे …{Loading}…
देवस्य त्वेत्यनुद्रुत्य ब्रह्मणे प्राणाय जुष्टं निर्वपामीति प्रथममपानायेति द्वितीयं व्यानायेति तृतीयं ब्रह्मणे जुष्टमिति चतुर्थम् २
थिते
- Having recited devasya tvā… he pours first measure with brahmaṇe prāṇāya juṣṭam nirvapāmi,… the second with apānāya…; then third with vyānāya…; the fourth with brahmaṇe juṣṭam.
देवस्य त्वेत्यनुद्रुत्य ब्रह्मणे प्राणाय जुष्टं निर्वपामीति प्रथममपानायेति द्वितीयं व्यानायेति तृतीयं ब्रह्मणे जुष्टमिति चतुर्थम् २
03 तूष्णीं वा सर्वाणि …{Loading}…
तूष्णीं वा सर्वाणि ३
थिते
- Or (he pours out all the measures) silently (without any formula).
तूष्णीं वा सर्वाणि ३
04 चतुर्षूदपात्रेषु पचति …{Loading}…
चतुर्षूदपात्रेषु पचति ४
थिते
- He cooks (the rice-pap) in four potfuls of water.
चतुर्षूदपात्रेषु पचति ४
05 न प्रक्षालयति न …{Loading}…
न प्रक्षालयति न प्रस्रावयति ५
थिते
- He does not wash (the rice-grains), nor does he cause water to flow over them.
न प्रक्षालयति न प्रस्रावयति ५
06 क्षीरे भवतीत्येके …{Loading}…
क्षीरे भवतीत्येके ६
थिते
- According to some (ritualists), the rice-pap is (cooked) in milk.
क्षीरे भवतीत्येके ६
07 जीवतण्डुलमिव श्रपयतीति विज्ञायते …{Loading}…
जीवतण्डुलमिव श्रपयतीति विज्ञायते ७
थिते
- It is known from (a Brāhmaṇa-text)1 “He cooks (the pap in which) the rice-grains (remain) distinct (from one another)".
जीवतण्डुलमिव श्रपयतीति विज्ञायते ७
08 दर्व्या ब्रह्मौदनादुद्धृत्य प्र …{Loading}…
दर्व्या ब्रह्मौदनादुद्धृत्य प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान्यजेहेह्यानिति जुहोत्यभि वा मन्त्रयते ८
थिते
- Having taken out (some rice-pap) by means of a ladle, with pra vedhase kavaye…1 he offers (that rice pap in the Brahmaudanika-fire) or addresses it.
दर्व्या ब्रह्मौदनादुद्धृत्य प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान्यजेहेह्यानिति जुहोत्यभि वा मन्त्रयते ८
09 चतुर्धा ब्रह्मौदनं व्युद्धृत्य …{Loading}…
चतुर्धा ब्रह्मौदनं व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य कर्षन्ननुच्छिन्दंश्चतुर्भ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति ९
थिते
- Having taken out the rice-pap in four (separate dishes) having poured ample ghee on it, (the sacrificer) pushes (those dishes) in a dragging manner, without leaving his hold (until the priests take them) towards the four priests belonging to (the family of one of the seven) sages.
चतुर्धा ब्रह्मौदनं व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य कर्षन्ननुच्छिन्दंश्चतुर्भ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति ९
10 अपात्ताः प्रथमे पिण्डा …{Loading}…
अपात्ताः प्रथमे पिण्डा भवन्त्यप्रतिहताः पाणयः । अथ ब्रह्मौदनशेषं सङ्कृष्य तस्मिन्नाज्यशेषमानीय तस्मिंश्चित्रियस्याश्वत्थस्य तिस्रः समिध आर्द्राः सपलाशाः प्रादेशमात्र्यः स्तिभिगवत्यो विवर्तयति १०
थिते
- The first balls (morsels) are taken (by the priests) and they have not put their hands in their (dishes),1 then, (at that stage) having scratched together the remaining rice-pap of Brahmins, having poured the remaining ghee in it, (the Adhvaryu) stirs2 three fire-sticks which are wet, and accompanied by leaves, which are a span in length, which are accompanied by fruits and which belong to an Aśvattha-tree which serves as a characteristic mark3, in it (the ghee).
अपात्ताः प्रथमे पिण्डा भवन्त्यप्रतिहताः पाणयः । अथ ब्रह्मौदनशेषं सङ्कृष्य तस्मिन्नाज्यशेषमानीय तस्मिंश्चित्रियस्याश्वत्थस्य तिस्रः समिध आर्द्राः सपलाशाः प्रादेशमात्र्यः स्तिभिगवत्यो विवर्तयति १०
इति पञ्चमी कण्डिका