०४

01 उद्धन्यमानमस्या अमेध्यमप पाप्मानं ...{Loading}...

उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवणं देवयजनमुद्धत्य शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु न इत्यद्भिरवोक्ष्य तस्मिन्नुदीचीनवंशं शरणं करोति १

02 तस्याग्रेण मध्यमं वंशङ् ...{Loading}...

तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति २

03 तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम् ...{Loading}...

तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम्। एकादशसु राजन्यस्य । द्वादशसु वैश्यस्य ३

04 चतुर्विंशत्यामपरिमिते यावता वा ...{Loading}...

चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ४

05 दक्षिणतःपुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि ...{Loading}...

दक्षिणतःपुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेरायतनम् ५

06 अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य ...{Loading}...

अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य ६

07 अग्रेणाहवनीयं सभायां सभ्यः ...{Loading}...

अग्रेणाहवनीयं सभायां सभ्यः ७

08 तम् पूर्वेणावसथ आवसथ्यः ...{Loading}...

तं पूर्वेणावसथ आवसथ्यः ८

09 केशश्मश्रु वपते नखानि ...{Loading}...

केशश्मश्रु वपते नखानि निकृन्तते स्नाति । एवं पत्नी केशवर्जम् ९

10 क्षौमे वसानौ जायापती ...{Loading}...

क्षौमे वसानौ जायापती अग्निमादधीयाताम् १०

11 ते दक्षिणाकालेऽध्वर्यवे दत्तः ...{Loading}...

ते दक्षिणाकालेऽध्वर्यवे दत्तः ११

12 अपराह्णेऽधिवृक्षसूर्ये वौपासनादग्निमाहृत्यापरेण गार्हपत्यायतनम् ...{Loading}...

अपराह्णेऽधिवृक्षसूर्ये वौपासनादग्निमाहृत्यापरेण गार्हपत्यायतनं ब्राह्मौदनिकमादधाति १२

13 औपासनं वा सर्वम् ...{Loading}...

औपासनं वा सर्वम् १३

14 निर्मथ्यं वा ...{Loading}...

निर्मथ्यं वा १४

15 यदि सर्वमौपासनमाहरेदपूपं यवमयं ...{Loading}...

यदि सर्वमौपासनमाहरेदपूपं यवमयं व्रीहिमयं चौदुम्बरपर्णाभ्यां सङ्गृह्यायतन उपास्येद्यवमयं पश्चाद्व्रीहिमयं पुरस्तात्तस्मिन्नादध्यात् १५

16 सर्वमप्यौपासनमाहरन्नापूपावुपास्येदित्यपरम् ...{Loading}...

सर्वमप्यौपासनमाहरन्नापूपावुपास्येदित्यपरम् १६

इति चतुर्थी कण्डिका इति प्रथमः पटलः


  1. TB I.2.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB I.2.1.1. ↩︎ ↩︎

  3. Cf. TB I.1.4.1; KS VIII.3. ↩︎