01 उद्धन्यमानमस्या अमेध्यमप पाप्मानं …{Loading}…
उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवणं देवयजनमुद्धत्य शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु न इत्यद्भिरवोक्ष्य तस्मिन्नुदीचीनवंशं शरणं करोति १
थिते
- With uddhanyamānamasyāḥ…1 having dug the sacrificial place a little, sloping towards the east, with śaṁ no devīrabhiṣṭaye…2 having sprinkled water (on it) with his palm turned downwards, the Adhvaryu prepares a (fire) hall with the roof having bamboos pointing to the north, on it (sacrificial place).
उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवणं देवयजनमुद्धत्य शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु न इत्यद्भिरवोक्ष्य तस्मिन्नुदीचीनवंशं शरणं करोति १
02 तस्याग्रेण मध्यमं वंशङ् …{Loading}…
तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति २
थिते
- To the front of the middle bamboo of it, there is the place of the Gārhapatya.1
तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति २
03 तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम् …{Loading}…
तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम्। एकादशसु राजन्यस्य । द्वादशसु वैश्यस्य ३
थिते
- To the east of it at eight steps, there should be the place of the Āhavanīya of a Brāhmaṇa (-performer); at eleven… of a Kṣatriya (performer); at twelve… of a Vaiśya (performer).
तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम्। एकादशसु राजन्यस्य । द्वादशसु वैश्यस्य ३
04 चतुर्विंशत्यामपरिमिते यावता वा …{Loading}…
चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ४
चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ४
05 दक्षिणतःपुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि …{Loading}…
दक्षिणतःपुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेरायतनम् ५
थिते
- To the south-east, at the one third (of the distance between the Āhavanīya and the Gārhapatya), near the Gārhapatya, (there should be) the place of Dakṣiṇa (-fire.).
दक्षिणतःपुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेरायतनम् ५
06 अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य …{Loading}…
अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य ६
थिते
- The chamber of the Āhavanīya is different, (the chamber) of the Gārhapatya (also should be) different.
अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य ६
07 अग्रेणाहवनीयं सभायां सभ्यः …{Loading}…
अग्रेणाहवनीयं सभायां सभ्यः ७
थिते
- To the east of the Āhavanīya (there should be) the Sabhya (fire) in the gambling-hall.
अग्रेणाहवनीयं सभायां सभ्यः ७
08 तम् पूर्वेणावसथ आवसथ्यः …{Loading}…
तं पूर्वेणावसथ आवसथ्यः ८
थिते
- To the east of it (Sabhya) in the Guest-room, there should be the Āvasathya (fire).
तं पूर्वेणावसथ आवसथ्यः ८
09 केशश्मश्रु वपते नखानि …{Loading}…
केशश्मश्रु वपते नखानि निकृन्तते स्नाति । एवं पत्नी केशवर्जम् ९
थिते
- (The sacrificer) gets his hair and beard shaved; nails cut; he takes bath; the wife does the same except (the shaving) of hair.
केशश्मश्रु वपते नखानि निकृन्तते स्नाति । एवं पत्नी केशवर्जम् ९
10 क्षौमे वसानौ जायापती …{Loading}…
क्षौमे वसानौ जायापती अग्निमादधीयाताम् १०
थिते
- Wearing silk garments the husband and the wife should establish fires;
क्षौमे वसानौ जायापती अग्निमादधीयाताम् १०
11 ते दक्षिणाकालेऽध्वर्यवे दत्तः …{Loading}…
ते दक्षिणाकालेऽध्वर्यवे दत्तः ११
थिते
- at the time of giving gifts they give those (silk-garments) to the Adhvaryu.1
ते दक्षिणाकालेऽध्वर्यवे दत्तः ११
12 अपराह्णेऽधिवृक्षसूर्ये वौपासनादग्निमाहृत्यापरेण गार्हपत्यायतनम् …{Loading}…
अपराह्णेऽधिवृक्षसूर्ये वौपासनादग्निमाहृत्यापरेण गार्हपत्यायतनं ब्राह्मौदनिकमादधाति १२
थिते
- In the afternoon, or when the sun is exactly at the top of trees, having brought the fire from the Aupāsana, (the Adhvaryu) establishes the fire for cooking rice-pap for Brahmins, to the west of the Gārhapatya (fire).
अपराह्णेऽधिवृक्षसूर्ये वौपासनादग्निमाहृत्यापरेण गार्हपत्यायतनं ब्राह्मौदनिकमादधाति १२
13 औपासनं वा सर्वम् …{Loading}…
औपासनं वा सर्वम् १३
थिते
- Or rather he brings the entire Aupāsana (fire).
औपासनं वा सर्वम् १३
14 निर्मथ्यं वा …{Loading}…
निर्मथ्यं वा १४
थिते
- Or rather (he places the Brahmaudanika-fire) having produced it by means of churning.
निर्मथ्यं वा १४
15 यदि सर्वमौपासनमाहरेदपूपं यवमयं …{Loading}…
यदि सर्वमौपासनमाहरेदपूपं यवमयं व्रीहिमयं चौदुम्बरपर्णाभ्यां सङ्गृह्यायतन उपास्येद्यवमयं पश्चाद्व्रीहिमयं पुरस्तात्तस्मिन्नादध्यात् १५
थिते
- In case he brings the entire Aupāsna-fire, having taken (separately) a cake of rice-flour, and a cake of barley-flour by means of leaves of Udumbara, he should throw the cake of barley to the west and that of rice to the east on the place (where the Gārhapatya-fire is going to be established) and then keep (the Aupāsana-fire on that place).
यदि सर्वमौपासनमाहरेदपूपं यवमयं व्रीहिमयं चौदुम्बरपर्णाभ्यां सङ्गृह्यायतन उपास्येद्यवमयं पश्चाद्व्रीहिमयं पुरस्तात्तस्मिन्नादध्यात् १५
16 सर्वमप्यौपासनमाहरन्नापूपावुपास्येदित्यपरम् …{Loading}…
सर्वमप्यौपासनमाहरन्नापूपावुपास्येदित्यपरम् १६
थिते
- There is another view that even if he is going to bring the entire Aupāsana-fire, he should not throw the two cakes on the place of the Gārhapatya.1
सर्वमप्यौपासनमाहरन्नापूपावुपास्येदित्यपरम् १६
इति चतुर्थी कण्डिका इति प्रथमः पटलः