०३

01 यन् त्वा समभरञ् …{Loading}…

यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम् । स सम्भृतः सीद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति सम्भृत्य निदधाति १

02 अथ नक्षत्राणि …{Loading}…

अथ नक्षत्राणि २

03 कृत्तिकासु ब्राह्मण आदधीत …{Loading}…

कृत्तिकासु ब्राह्मण आदधीत मुख्यो ब्रह्मवर्चसी भवति ३

04 गृहांस्तस्याग्निर्दाहुको भवति …{Loading}…

गृहांस्तस्याग्निर्दाहुको भवति ४

05 रोहिण्यामाधाय सर्वान्रोहान्रोहति …{Loading}…

रोहिण्यामाधाय सर्वान्रोहान्रोहति ५

06 मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो …{Loading}…

मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो वा ६

07 यः पुरा भद्रः …{Loading}…

यः पुरा भद्रः सन्पापीयान्स्यात्पुनर्वस्वोः ७

08 पूर्वयोः फल्गुन्योर्यः कामयेत …{Loading}…

पूर्वयोः फल्गुन्योर्यः कामयेत दानकामा मे प्रजा स्युरिति ८

09 उत्तरयोर्यः कामयेत भग्यन्नादः …{Loading}…

उत्तरयोर्यः कामयेत भग्यन्नादः स्यामिति ९

10 एतदेवैके विपरीतम् …{Loading}…

एतदेवैके विपरीतम् १०

11 अथापरम् पूर्वयोराधाय पापीयान्भवत्युत्तरयोर्वसीयान् …{Loading}…

अथापरम् । पूर्वयोराधाय पापीयान्भवत्युत्तरयोर्वसीयान् ११

12 हस्ते यः कामयेत …{Loading}…

हस्ते यः कामयेत प्र मे दीयेतेति १२

13 चित्रायां राजन्यो भ्रातृव्यवान्वा …{Loading}…

चित्रायां राजन्यो भ्रातृव्यवान्वा १३

14 विशाखयोः प्रजाकामोऽनुराधेष्ठृद्धिकामः श्रवणे …{Loading}…

विशाखयोः प्रजाकामोऽनुराधेष्ठृद्धिकामः श्रवणे पुष्टिकाम उत्तरेषु प्रोष्ठपदेषु प्रतिष्ठाकामः १४

15 सर्वाणि नित्यवदेके समामनन्ति …{Loading}…

सर्वाणि नित्यवदेके समामनन्ति १५

16 फल्गुनीपूर्णमास आदधीतेत्युक्त्वाह यत्फल्गुनीपूर्णमास …{Loading}…

फल्गुनीपूर्णमास आदधीतेत्युक्त्वाह यत्फल्गुनीपूर्णमास आदध्यात्संवत्सरस्यैनमासन्दध्याद्द्व्यहे पुरैकाहे वा १६

17 अमावास्यायाम् पौर्णमास्यां वाधेयः …{Loading}…

अमावास्यायां पौर्णमास्यां वाधेयः १७

18 वसन्तो ब्राह्मणस्य ग्रीष्मो …{Loading}…

वसन्तो ब्राह्मणस्य ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य वर्षा रथकारस्य १८

19 ये त्रयाणां वर्णानामेतत्कर्म …{Loading}…

ये त्रयाणां वर्णानामेतत्कर्म कुर्युस्तेषामेष कालः १९

20 शिशिरः सार्ववर्णिकः …{Loading}…

शिशिरः सार्ववर्णिकः २०

21 सोमेन यक्ष्यमाणो नर्तुं …{Loading}…

सोमेन यक्ष्यमाणो नर्तुं सूर्क्षेन्न नक्षत्रम् २१

22 उदवसाय शलीन आदधीतानुदवसाय …{Loading}…

उदवसाय शलीन आदधीतानुदवसाय यायावरः २२

23 एकाहं वा प्रयायात् …{Loading}…

एकाहं वा प्रयायात् २३

इति तृतीया कण्डिका


  1. I TB I.2.1.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. He who may perform rituals for others as a priest and therefore likely to be wandering. For both these types and some other types of Brahmins see Vaikhānasa-Dharma-Sastra Iē.5 ↩︎