०२

01 याभिरदृंहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य ...{Loading}...

याभिरदृंहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भर्त्रीम् । ता नः शिवाः शर्कराः सन्तु सर्वा इति शर्कराः । अग्ने रेतश्चन्द्रं हिरण्यमद्भ्यः सम्भूतममृतं प्रजासु । तत्सम्भरन्नुत्तरतो निधायातिप्रयच्चन्दुरितिं तरेयमिति हिरण्यम् १

02 इति पार्थिवाः ...{Loading}...

इति पार्थिवाः २

03 यदि पञ्चौदुम्बराणि लोहशकलानि ...{Loading}...

यदि पञ्चौदुम्बराणि लोहशकलानि पञ्चमो भवति ३

04 अश्वो रूपङ् कृत्वा ...{Loading}...

अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः संवत्सरं देवेभ्यो निलाय । तत्ते न्यक्तमिह सम्भरन्तः शतं जीवेम शरदः सुवीरा इत्यश्वत्थम् । ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह । त्वया वयमिषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्युदुम्बरम् । गायत्रिया ह्रियमाणस्य यत्ते पर्णमपतत्तृतीयस्यै दिवोऽधि । सोऽयं पर्णः सोमपर्णाद्धि जातस्ततो हरामि सोमपीथस्यावरुद्ध्यै । देवानां ब्रह्मवादं वदतां यदुपाशृणोः सुश्रवा वै श्रुतोऽसि । ततो मामाविशतु ब्रह्मवर्चसं तत्सम्भरंस्तदवरुन्धीय साक्षादित्येताभ्यां पर्णम् । यया ते सृष्टस्याग्नेर्होतिमशमयत्प्रजापतिः । तामिमामप्रदाहाय शमीं शान्त्यै हराम्यहमिति शमीम् । यत्ते सृष्टस्य यतो विकङ्कतं भा आर्छज्जातवेदः । तया भासा सम्मित उरुं नो लोकमनुप्रभाहीति विकङ्कतम् । यत्ते तान्तस्य हृदयमाच्छिन्दञ्जातवेदो मरुतो अद्भिस्तमयित्वा । एतत्ते तदशनेः सम्भरामि सात्मा अग्ने सहृदयो भवेहेत्यशनिहतस्य वृक्षस्य । यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथनं हरामीति पुष्करपर्णम् । इति वानस्पत्याः ४

इति द्वितीया कण्डिका


  1. For the formulae in this Sūtra see TB I.2.1.4f. ↩︎ ↩︎ ↩︎

  2. TB I.2.1.4. ↩︎