01 अग्न्याधेयं व्याख्यास्यामः …{Loading}…
अग्न्याधेयं व्याख्यास्यामः १
थिते
- We shall explain Agnyādheya (establishment of the fires).
अग्न्याधेयं व्याख्यास्यामः १
02 यो अश्वत्थः शमीगर्भ …{Loading}…
यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते इरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति शमीगर्भस्याश्वत्थस्यारणी आहरति २

03 अप्यशमीगर्भस्येति वाजसनेयकम् …{Loading}…
अप्यशमीगर्भस्येति वाजसनेयकम् ३
थिते
- “Even out of the (Aśvattha-tree) not grown on a Sami tree” —this is the view of the Vājasaneyins.1
अप्यशमीगर्भस्येति वाजसनेयकम् ३
04 अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियां …{Loading}…
अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियां सम्भरामि । शान्तयोनिं शमीगर्भमग्नये प्रजनयितवे । आयुर्मयि धेह्याहुर्यजमान इत्यरणी अभिमन्त्र्य सप्त पार्थिवान्सम्भारानाहरति । एवं वानस्पत्यान् । पञ्चपञ्च वा ४

05 भूयसो वा पार्थिवान् …{Loading}…
भूयसो वा पार्थिवान् ५
थिते
- Or (he may bring) more materials derived from earth.
भूयसो वा पार्थिवान् ५
06 न सम्भारान्सम्भरेदिति वाजसनेयकम् …{Loading}…
न सम्भारान्सम्भरेदिति वाजसनेयकम् ६
थिते
- “One should not collect the materials”—this is view of the Vājasaneyins.
न सम्भारान्सम्भरेदिति वाजसनेयकम् ६
07 वैश्वानरस्य रूपम् पृथिव्याम् …{Loading}…
वैश्वानरस्य रूपं पृथिव्यां परिस्रसा । स्योनमाविशन्तु न इति सिकताः । यदिदं दिवो यददः पृथिव्याः सञ्जज्ञाने रोदसी सम्बभूवतुः । ऊषान्कृष्णमवतु कृष्णमूषा इधोभयोर्यज्ञियमागमिष्ठा इत्यूषान् । उतीः कुर्वाणो यत्पृथिवीमचरो गूहाकारमाखुरूपं प्रतीत्य । तत्ते न्यक्तमिह सम्भरन्तः शतं जीवेम शरदः सुवीरा इत्याखुकरीषम् । ऊर्जं पृथिव्या रसमाभरन्तः शतं जीवेम शरदः पुरूचीः । वम्रीभिरनुवित्तं गुहासु श्रोत्रं त उर्व्यबधिरा भवाम इति वल्मीकवपाम् । प्रजापतिसृष्टानां प्रजानां क्षुधोऽपहत्यै सुवितं नो अस्तु । उपप्रभिन्नमिषमूर्जं प्रजाभ्यः सूदं गृहेभ्यो रसमाभरामीति सूदम् । यस्य रूपं बिभ्रदिमामविन्दद्गुहा प्रविष्टां सरिरस्य मध्ये । तस्येदं विहतमाभरन्तोऽच्छम्बट्कारमस्यां विधेमेति वराहविहतम् ७
थिते
- With vaiśvānarasya rūpam…1 (he collects) sand; with yadidaṁ divaḥ… (he collects) saline soil; with utīḥ kurvāṇaḥ … (he collects) the earth dug out by a rat, with ūrjaṁ pr̥thivyāḥ rasamābharantaḥ… (he collects) the fossilized ant-hill; with prajāpatisr̥ṣṭānām… (he collects) mud from a pond, with yasya rūpaṁ bibhrad… (he collects) earth dug up by a hog.
वैश्वानरस्य रूपं पृथिव्यां परिस्रसा । स्योनमाविशन्तु न इति सिकताः । यदिदं दिवो यददः पृथिव्याः सञ्जज्ञाने रोदसी सम्बभूवतुः । ऊषान्कृष्णमवतु कृष्णमूषा इधोभयोर्यज्ञियमागमिष्ठा इत्यूषान् । उतीः कुर्वाणो यत्पृथिवीमचरो गूहाकारमाखुरूपं प्रतीत्य । तत्ते न्यक्तमिह सम्भरन्तः शतं जीवेम शरदः सुवीरा इत्याखुकरीषम् । ऊर्जं पृथिव्या रसमाभरन्तः शतं जीवेम शरदः पुरूचीः । वम्रीभिरनुवित्तं गुहासु श्रोत्रं त उर्व्यबधिरा भवाम इति वल्मीकवपाम् । प्रजापतिसृष्टानां प्रजानां क्षुधोऽपहत्यै सुवितं नो अस्तु । उपप्रभिन्नमिषमूर्जं प्रजाभ्यः सूदं गृहेभ्यो रसमाभरामीति सूदम् । यस्य रूपं बिभ्रदिमामविन्दद्गुहा प्रविष्टां सरिरस्य मध्ये । तस्येदं विहतमाभरन्तोऽच्छम्बट्कारमस्यां विधेमेति वराहविहतम् ७
इति प्रथमा कण्डिका