१६

01 यो नः सपत्नो …{Loading}…

यो नः सपत्नो योऽरणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्चनेति च १

02 अग्न आयूंषि पवस …{Loading}…

अग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपत इति च २

03 पुत्रस्य नाम गृह्णाति …{Loading}…

पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव इत्यजातस्य । अमुष्मा इति जातस्य ३

04 ज्योतिषे तन्तवे त्वासावनु …{Loading}…

ज्योतिषे तन्तवे त्वासावनु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा च्छित्सि मा मानुषादिति प्रियस्य पुत्रस्य नाम गृह्णाति ४

05 अग्ने वह्ने स्वदितन् …{Loading}…

अग्ने वह्ने स्वदितं नस्तनये पितुं पच । शं तोकाय तनुवे स्योन इति दक्षिणाग्निम् ५

06 ज्योतिषे तन्तवे त्वेत्यन्तर्वेद्युपविशति …{Loading}…

ज्योतिषे तन्तवे त्वेत्यन्तर्वेद्युपविशति । पूर्ववन्नामग्रहणम् ६

07 ज्योतिरसि तन्तव इत्युपविश्य …{Loading}…

ज्योतिरसि तन्तव इत्युपविश्य जपति ७

08 वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतीमोक्षाञ्जपति …{Loading}…

वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतीमोक्षाञ्जपति ८

09 अत्र वेदस्तरणं यजमानभागस्य …{Loading}…

अत्र वेदस्तरणं यजमानभागस्य च प्राशनमेके समामनन्ति ९

10 कस्त्वा युनक्ति स …{Loading}…

कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति १०

11 अग्ने व्रतपते व्रतमचारिषमिति …{Loading}…

अग्ने व्रतपते व्रतमचारिषमिति व्रतं विसृजते ११

12 यज्ञा बभूवेति यज्ञस्य …{Loading}…

यज्ञा बभूवेति यज्ञस्य पुनरालम्भं जपति १२

13 गोमानिति प्राङुदेत्य गोमतीञ् …{Loading}…

गोमानिति प्राङुदेत्य गोमतीं जपति १३

14 अत्र वा यजमानभागम् …{Loading}…

अत्र वा यजमानभागं प्राश्नीयात् १४

15 यज्ञ शञ् च …{Loading}…

यज्ञ शं च म उप च म आयुश्च मे बलं च मे यज्ञ शिवो मे सन्तिष्ठस्व यज्ञ स्विष्टो मे सन्तिष्ठस्व यज्ञारिष्टो मे सन्तिष्ठस्वेति दर्शपूर्णमासाभ्यां सोमेन पशुना वेष्ट्वा जपति १५

16 वृष्टिरसि वृश्च मे …{Loading}…

वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामितीष्ट्वाप उपस्पृशति । तदिदं सर्वयज्ञेषूपस्पर्शनं भवति १६

17 ब्राह्मणांस्तर्पयितवा इति सम्प्रेष्यति …{Loading}…

ब्राह्मणांस्तर्पयितवा इति सम्प्रेष्यति १७

18 प्रवसन्काले विहारमभिमुखो याजमानञ् …{Loading}…

प्रवसन्काले विहारमभिमुखो याजमानं जपति १८

19 प्राचो विष्णुक्रमान्क्रामति …{Loading}…

प्राचो विष्णुक्रमान्क्रामति १९

20 प्राङुदेत्य गोमतीञ् जपति …{Loading}…

प्राङुदेत्य गोमतीं जपति जपति २०

इति षोडशी कण्डिका इति चतुर्थः पटलः इति चतुर्थः प्रश्नः