१५

01 उद्यन्नद्य मित्रमहः सपत्नान्मे ...{Loading}...

उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि । उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापं समूहतामिति च १

02 ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते ...{Loading}...

ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते २

03 यद्यभिचरेदिदमहमुष्यामुष्यायणस्य प्राणन् निवेष्टयामीति ...{Loading}...

यद्यभिचरेदिदमहमुष्यामुष्यायणस्य प्राणं निवेष्टयामीति दक्षिणस्य पदः पार्ष्ण्या निमृद्नीयात् ३

04 पुण्या भवन्तु या ...{Loading}...

पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरित्युक्त्वा समहं प्रजया सं मया प्रजेति पुनरुपावर्तते ४

05 समिद्धो अग्ने मे ...{Loading}...

समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासमित्याहवनीयमुपसमिन्द्धे । वसुमान्यज्ञो वसीयान्भूयासुमित्युपतिष्ठते ५

इति पञ्चदशी कण्डिका


  1. TB III.7.6.22-23. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.6.6.g-h. ↩︎ ↩︎