१४

01 दधिक्राव्णो अकारिषमिति सायन्दोहम् ...{Loading}...

दधिक्राव्णो अकारिषमिति सायन्दोहम् । इदं हविरिति प्रातर्दोहम् १

02 नाब्राह्मणः सान्नाय्यम् प्राश्नीयात् ...{Loading}...

नाब्राह्मणः सान्नाय्यं प्राश्नीयात् २

03 अन्तर्वेदि प्रणीतास्वध्वर्युः सन्ततामुदकधारां ...{Loading}...

अन्तर्वेदि प्रणीतास्वध्वर्युः सन्ततामुदकधारां स्रावयति । सदसि सन्मे भूया इत्यानीयमानायां जपति ३

04 प्राच्यान् दिशि देवा ...{Loading}...

प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामित्येतैर्यथालिङ्गं व्युत्सि च्य समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सुते सरस्वति गोष्ठश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्ध सरस्वति । या सरस्वती वैशम्बल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे ४

05 उभौ कपालविमोचनञ् जपतः ...{Loading}...

उभौ कपालविमोचनं जपतः ५

06 विष्णोः क्रमोऽसीति दक्षिणे ...{Loading}...

विष्णोः क्रमोऽसीति दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान्प्राचः क्रामत्युत्तरमुत्तरं ज्यायांसमनतिहरन्सव्यम् ६

07 नाहवनीयमतिक्रामति ...{Loading}...

नाहवनीयमतिक्रामति ७

08 अवस्थाय चतुर्थञ् जपति ...{Loading}...

अवस्थाय चतुर्थं जपति ८

09 विष्णुक्रमान्विष्ण्वतिक्रमानतीमोक्षानिति व्यतिषक्तानेके समामनन्ति ...{Loading}...

विष्णुक्रमान्विष्ण्वतिक्रमानतीमोक्षानिति व्यतिषक्तानेके समामनन्ति । विनिरूढानेके ९

10 अग्निना देवेन पृतना ...{Loading}...

अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमाः । ये देवा यज्ञहन इत्यतीमोक्षाः १०

11 अगन्म सुवः सुवरगन्मेत्यादित्यमुपतिष्ठते ...{Loading}...

अगन्म सुवः सुवरगन्मेत्यादित्यमुपतिष्ठते ११

इति चतुर्दशी कण्डिका


  1. TS I.5.11.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB II.6.3.5. ↩︎

  3. See III.1.12. ↩︎ ↩︎ ↩︎