१३

01 सोमस्याहन् देवयज्यया सुरेता ...{Loading}...

सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति यथालिङ्गं पत्नीसंयाजान्हुतंहुतम् १

02 राकाया अहन् देवयज्यया ...{Loading}...

राकाया अहं देवयज्यया प्रजावान्भूयासं सिनीवाल्या अहं देवयज्यया पशुमान्भूयासं कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिति काम्याः २

03 राकाया अहन् देवयज्यया ...{Loading}...

राकाया अहं देवयज्यया प्रजावती भूयासं सिनीवाल्या अहं देवयज्यया पशुमती भूयासं कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासमिति पत्न्यनुमन्त्रयते ३

04 इडास्माननु वस्ताङ् घृतेन ...{Loading}...

इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवीत्याज्येडाम् ४

05 अन्तर्वेदि वेदन् निधायाभिमृशति ...{Loading}...

अन्तर्वेदि वेदं निधायाभिमृशति वेदोऽसीति ५

06 पुरा विदेयेति यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य ...{Loading}...

पुरा विदेयेति यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात् । तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ६

07 या सरस्वती विशोभगीना ...{Loading}...

या सरस्वती विशोभगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्मेति फलीकरणहोमे हुते मुखं विमृष्टे ७

08 वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा ...{Loading}...

वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छत्वदो म आगच्छत्विति समिष्टयजुर्हुतमनुमन्त्रयते । यत्कामयते तस्य नाम गृह्णाति ८

09 सं यज्ञपतिराशिषेति यजमानभागम् ...{Loading}...

सं यज्ञपतिराशिषेति यजमानभागं प्राश्नाति ९

इति त्रयोदशी कण्डिका


  1. TS I.6.4.s-u. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See III.8.10-9.3. ↩︎ ↩︎ ↩︎