01 सोमस्याहन् देवयज्यया सुरेता …{Loading}…
सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति यथालिङ्गं पत्नीसंयाजान्हुतंहुतम् १
थिते
- In accordance to the characteristic word, with one of the formulae (in sequence) beginning with somasyāhaṁ devayajyayā…1 (the sacrificer) addresses the Patnīsaṁyajas after each one of them is offered.
सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति यथालिङ्गं पत्नीसंयाजान्हुतंहुतम् १
02 राकाया अहन् देवयज्यया …{Loading}…
राकाया अहं देवयज्यया प्रजावान्भूयासं सिनीवाल्या अहं देवयज्यया पशुमान्भूयासं कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिति काम्याः २
थिते
- These formulae are optional: rākāya aham…, sinivālyā aham…, kuhvā aham….1
राकाया अहं देवयज्यया प्रजावान्भूयासं सिनीवाल्या अहं देवयज्यया पशुमान्भूयासं कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिति काम्याः २
03 राकाया अहन् देवयज्यया …{Loading}…
राकाया अहं देवयज्यया प्रजावती भूयासं सिनीवाल्या अहं देवयज्यया पशुमती भूयासं कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासमिति पत्न्यनुमन्त्रयते ३
थिते
- The wife of the sacrificer recites rākāyā aham…, sinīvālya aham…, kuhvā aham….
राकाया अहं देवयज्यया प्रजावती भूयासं सिनीवाल्या अहं देवयज्यया पशुमती भूयासं कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासमिति पत्न्यनुमन्त्रयते ३
04 इडास्माननु वस्ताङ् घृतेन …{Loading}…
इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवीत्याज्येडाम् ४
थिते
- (The sacrificer adresses) the ghee-iḍā1 with iḍāṣmānanu vastām….
इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवीत्याज्येडाम् ४
05 अन्तर्वेदि वेदन् निधायाभिमृशति …{Loading}…
अन्तर्वेदि वेदं निधायाभिमृशति वेदोऽसीति ५
थिते
- After the Veda (grass-brush) has been kept within the altar, (the sacrificer) touches it with vedo’i…1
अन्तर्वेदि वेदं निधायाभिमृशति वेदोऽसीति ५
06 पुरा विदेयेति यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य …{Loading}…
पुरा विदेयेति यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात् । तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ६

07 या सरस्वती विशोभगीना …{Loading}…
या सरस्वती विशोभगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्मेति फलीकरणहोमे हुते मुखं विमृष्टे ७

08 वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा …{Loading}…
वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छत्वदो म आगच्छत्विति समिष्टयजुर्हुतमनुमन्त्रयते । यत्कामयते तस्य नाम गृह्णाति ८

09 सं यज्ञपतिराशिषेति यजमानभागम् …{Loading}…
सं यज्ञपतिराशिषेति यजमानभागं प्राश्नाति ९

इति त्रयोदशी कण्डिका