११

01 अथैनम् प्रतिदिशं व्यूहत्याशानान् ...{Loading}...

अथैनं प्रतिदिशं व्यूहत्याशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् । ब्रह्मपा हि भजतां भागी भागं माभागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिदं हविः सोम्यानां सोमपीथिनाम् । निर्भक्तोऽब्राह्मणो नेहाब्राह्मणस्यास्तीति १

02 उपहूतो द्यौः पितोप ...{Loading}...

उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायोपहूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेत्याग्नीध्रभागस्य वैशेषिकम् २

03 ब्रध्न पिन्वस्वेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति इयं ...{Loading}...

ब्रध्न पिन्वस्वेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति । इयं स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमिति च ३

04 उक्तः सम्प्रैषोऽन्वाहार्यस्य च ...{Loading}...

उक्तः सम्प्रैषोऽन्वाहार्यस्य च दानम् ४

05 एषा ते अग्ने ...{Loading}...

एषा ते अग्ने समिदित्यानूयाजिकीं समिधमाधीयमानाम् । यं ते अग्न आवृश्चाम्यहं वा क्षिपितश्चरन् । प्रजां च तस्य मूलं च नीचैर्देवा निवृश्चत । अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्चन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वांस्तानग्ने सन्दह यांश्चाहं द्वेष्मि ये च मामित्याहितायामग्निम् ५

06 वेदिर्बर्हिः शृतं हविरिध्मः ...{Loading}...

वेदिर्बर्हिः शृतं हविरिध्मः ह्परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः । सं मे सन्नतयो नमन्तामिध्मसन्नहने हुत इति सम्मार्गान्हुतान् ६

07 सप्तहोतारं वदेत्पुरस्तादनूयाजानामुपरिष्टाद्वा ...{Loading}...

सप्तहोतारं वदेत्पुरस्तादनूयाजानामुपरिष्टाद्वा ७

इत्येकादशी कण्डिका


  1. TB III.7.5.8-10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See III.3.3. ↩︎ ↩︎ ↩︎ ↩︎

  3. TB III.7.6.16-17. ↩︎