०९

01 दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् ...{Loading}...

दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् १

02 अङ्गिरसो मास्य यज्ञस्य ...{Loading}...

अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्त्विति प्तामिधेनीनां प्रतिपदि जपति २

03 अनूच्यमानासु दशहोतारं व्याख्यायोच्छुष्मो ...{Loading}...

अनूच्यमानासु दशहोतारं व्याख्यायोच्छुष्मो अग्न इति समिध्यमानम् । समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नम इति समिद्धम् ३

04 मनोऽसि प्राजापत्यमिति स्रौवमाघार्यमाणम् ...{Loading}...

मनोऽसि प्राजापत्यमिति स्रौवमाघार्यमाणम् ४

05 स्रुच्यमन्वारभ्य वागस्यैन्द्रीत्यनुमन्त्रयते ...{Loading}...

स्रुच्यमन्वारभ्य वागस्यैन्द्रीत्यनुमन्त्रयते ५

06 देवाः पितरः पितरो ...{Loading}...

देवाः पितरः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टं स्वं दत्तं स्वं पूर्तं स्वं श्रान्तं स्वं हुतम् । तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोतादित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यज इति होतृप्रवरेऽध्वर्युप्रवरे च प्रव्रियमाणे ६

07 चतुर्होतारं व्याख्याय वसन्तमृतूनाम् ...{Loading}...

चतुर्होतारं व्याख्याय वसन्तमृतूनां प्रीणामीत्येतैः प्रतिमन्त्रं प्रयाजान्हुतंहुतम् ७

08 एको ममैका तस्य ...{Loading}...

एको ममैका तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्मो द्वौ मम द्वे तस्य त्रयो मम तिस्रस्तस्य चत्वारो मम चतस्रस्तस्य पञ्च मम न तस्य किञ्चन यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येतैश्च प्रतिमन्त्रम् ८

09 अग्नीषोमयोरहन् देवयज्यया चक्षुष्मान्भूयासमित्याज्यभागौ ...{Loading}...

अग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमित्याज्यभागौ ९

10 विहृतानुमन्त्रणौ वा ...{Loading}...

विहृतानुमन्त्रणौ वा १०

11 अग्निना यज्ञश्चक्षुष्मानग्नेरहन् देवयज्यया ...{Loading}...

अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुष्मान्मूयासम् । सोमेन यज्ञश्चक्षुष्माँ सोमस्याहं देवयज्यया चक्षुष्मान्भूयासमिति विहृतौ ११

12 पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य ...{Loading}...

पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य १२

13 अग्नेरहन् देवयज्ययान्नादो भूयासमित्याग्नेयं ...{Loading}...

अग्नेरहं देवयज्ययान्नादो भूयासमित्याग्नेयं हुतमनुमन्त्रयते दब्धिरसीत्युपांशुयाजमग्नीषोमयोरित्यग्नीषोमीयमिन्द्राग्नियोरित्यैन्द्राग्नमिन्द्रस्येत्यैन्द्रं सान्नाय्यं महेन्द्रस्येति माहेन्द्रमग्नेः स्विष्टकृत इति सौविष्टकृतम् १३

14 पुरस्तात्स्विष्टकृतोऽन्यदेवतान्येके समामनन्ति ...{Loading}...

पुरस्तात्स्विष्टकृतोऽन्यदेवतान्येके समामनन्ति १४


  1. Thus before II.12.1 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ III.1; see also TB II.2.1.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See II.12.4. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS I.6.2.g-h. ↩︎

  5. By the enkindling-verse mentioned in II.12.6. ↩︎ ↩︎

  6. Cp. KS IV.94. ↩︎ ↩︎

  7. TS I.6.2.u. ↩︎

  8. TS I.6.2.v. ↩︎

  9. See II.20.2. ↩︎

  10. TS I.6.2.w. ↩︎

  11. TS I.6.2.x. ↩︎

  12. See II.21.6. ↩︎