०८

01 तृप्तिरसि गायत्रञ् छन्दस्तर्पय ...{Loading}...

तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मौजसा वीर्येण तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरिति पुरोडाशानज्यमानान् १

02 यज्ञो ऽसि सर्वतः ...{Loading}...

यज्ञो ऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं पुरोडाशमासन्नमभिमृशति सर्वाणि वा हवींषि २

03 इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो ...{Loading}...

इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोप मामिहेषमूर्जं यशः सह ओजः सनेयं शृतं मयि श्रयतामिति प्रातर्दोहम् । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं दधि मां धिनोत्विति दधि ३

04 अयं यज्ञः समसदद्धविष्मानृचा ...{Loading}...

अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सखममृतत्वमश्यामिति सर्वाणि हवींषि ४

05 यो नः कनीय ...{Loading}...

यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् ५

06 ममाग्ने वर्चो विहवेष्ट्यस्त्वित्यनुवाकेन ...{Loading}...

ममाग्ने वर्चो विहवेष्ट्यस्त्वित्यनुवाकेन सर्वाणि हवींष्यासन्नान्यभिमृशेदष्टाभिर्वा ६

07 चतुर्होत्रा पौर्णमास्यां हवींष्यासन्नान्यभिमृशेत्प्रजाकामः ...{Loading}...

चतुर्होत्रा पौर्णमास्यां हवींष्यासन्नान्यभिमृशेत्प्रजाकामः पञ्चहोत्रामावास्यायां स्वर्गकामो नित्यवदेके समामनन्ति ७

इत्यष्टमी कण्डिका इति द्वितीयः पटलः


  1. See II. 10.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See II. 11.5,7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TB III.7.6.12-13. ↩︎

  4. See II. 11.8. ↩︎