०७

01 अयम् प्रस्तर उभयस्य ...{Loading}...

अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति प्रस्तरमासाद्यमानम् १

02 आरोह पथो जुहु ...{Loading}...

आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा सम्भृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येनेति जुहूम् । अवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञं सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्द्वृताची त्रैष्टुभेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रेण शर्मणा दैव्येनेत्युपभृतम् । यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाम् । स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयं स्रुवो अभिजिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन । सर्वा यञ्जस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवम् । इयं स्थाली घृतस्य पूर्णाच्छिन्नपयाः शतधार उत्सः । मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् २

इति सप्तमी कण्डिका


  1. TB III.7.6.8. ↩︎

  2. See III.9.13. ↩︎ ↩︎

  3. TB III.7.6.9. ↩︎

  4. See II.9.15. ↩︎

  5. TB III.7.6.9. ↩︎

  6. See II.9.15. ↩︎

  7. Cp. TB III.7.6.10-11. ↩︎

  8. See II. 10.3. ↩︎

  9. TB IIH.7.6.11. ↩︎

  10. This is not mentioned earlier in the II Praśna. ↩︎