०६

01 अशिश्रेम बर्हिरन्तः पृथिव्यां ...{Loading}...

अशिश्रेम बर्हिरन्तः पृथिव्यां संरोहयन्त ओषधीर्विवृक्णाः । यासां मूलमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु । सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इत्यन्तर्वेदि बर्हिरासन्नम् १

02 चतुःशिखण्डा युवतिः सुपेशा ...{Loading}...

चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् । शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैधि । इषमूर्जं मे पिन्वस्व ब्रह्म तेजो मे पिन्वस्व क्षत्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वायुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्यमाणाम् २

03 ध्रुवोऽसीत्येतैः प्रतिमन्त्रम् परिधीन्परिधीयमानान् ...{Loading}...

ध्रुवोऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिधीयमानान् । अस्मिन्यज्ञ उप भूय इन्नु मेऽविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषांसि निरितो नु दाता इति च ३

04 युनज्मि त्वा ब्रह्मणा ...{Loading}...

युनज्मि त्वा ब्रह्मणा दैव्येनेत्याहवनीयम् । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तज्वो यास्ते अग्ने । ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यज्ञहनः पिशाचा इति च ४

05 विच्छिनद्मि विधृतीभ्यां सपत्नाञ्जातान्भ्रातृव्यान्ये ...{Loading}...

विच्छिनद्मि विधृतीभ्यां सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहं स्वानामुत्तमो ऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती आसाद्यमाने ५

इति षष्ठी कण्डिका


  1. See II.8.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.7.6.5-6. ↩︎ ↩︎ ↩︎ ↩︎

  3. TB III.7.6.7. ↩︎ ↩︎