०५

01 चतुःशिखण्डा युवतिः सुपेशा ...{Loading}...

चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं सम्मृज्यमानाम् १

02 यो मा हृदा ...{Loading}...

यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् २

03 इदन् तस्मै हर्म्यङ् ...{Loading}...

इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्ठ्यत्युत्करमभिगृह्यमाणम् ३

04 यज्ञस्य त्वा प्रमयाभिमया ...{Loading}...

यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामीति वेदिं परिगृह्यमाणाम् ४

05 यदुद्घ्नन्तो जिहिंसिम पृथिवीमोषधीरपः ...{Loading}...

यदुद्घ्नन्तो जिहिंसिम पृथिवीमोषधीरपः । अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पातु तस्मात् । यदुद्घ्नन्तो जिहिंसिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः शिवो नो विश्वैर्भुवनेभिरस्त्वित्युद्धन्यमानाम् । भूमिर्भूत्वा महिमानं पुपोष ततो देवो वर्धयते पयांसि । यज्ञिया यज्ञं विचयन्ति शं चौषधीराप इह शक्वरीश्चेति क्रियमाणाम् । इडेन्यक्रतूरहमपो देवीरुपब्रुवे । दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः । ऊर्णामृदु प्रथमानं स्योनं देवेभ्यो जुष्टं सदनाय बर्हिः । सुवर्गे लोके यजमानं हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिरासाद्यमानम् ५

06 अद्भिराज्यमाज्येनापः सम्यक् पुनीत ...{Loading}...

अद्भिराज्यमाज्येनापः सम्यक् पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यं प्रोक्षणीश्चोत्पूयमानाः ६

07 उभावाज्यग्रहाञ्जपतः ...{Loading}...

उभावाज्यग्रहाञ्जपतः ७

इति पञ्चमी कण्डिका


  1. TB III.7.6.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See II.1.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See II.3.13. ↩︎

  4. TB III.7.6.5. ↩︎

  5. See II.3.17. ↩︎