०३

01 दक्षिणेनाहवनीयमवस्थाय व्रतमुपैष्यन्समुद्रम् मनसा …{Loading}…

दक्षिणेनाहवनीयमवस्थाय व्रतमुपैष्यन्समुद्रं मनसा ध्यायति १

02 अथ जपत्यग्ने व्रतपते …{Loading}…

अथ जपत्यग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरिष्यामीति राजन्यवैश्यौ २

03 सर्वान्वा ब्राह्मणः …{Loading}…

सर्वान्वा ब्राह्मणः ३

04 अथादित्यमुपतिष्ठते सम्राडसि व्रतपा …{Loading}…

अथादित्यमुपतिष्ठते सम्राडसि व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासमिति ४

05 यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन्नेतद्यजुर्जपेत् …{Loading}…

यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन्नेतद्यजुर्जपेत् ५

06 उभावग्नी उपस्तृणते देवता …{Loading}…

उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि मह्यं गोपतये पशूनिति सायं परिस्तीर्यमाणेषु जपति ६

07 आरण्यं सायमाशेऽश्नात्यमाषममांसम् …{Loading}…

आरण्यं सायमाशेऽश्नात्यमाषममांसम् ७

08 अपि वा काममा …{Loading}…

अपि वा काममा मार्गादा मधुन आ प्राशातिकात् ८

09 अपो वा न …{Loading}…

अपो वा । न वा किञ्चित् ९

10 न तस्य सायमश्नीयाद्येन …{Loading}…

न तस्य सायमश्नीयाद्येन प्रातर्यक्ष्यमाणः स्यात् १०

11 आरण्यायोपवत्स्यन्नपोऽश्नाति न वा …{Loading}…

आरण्यायोपवत्स्यन्नपोऽश्नाति न वा ११

12 जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू …{Loading}…

जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू इति १२

13 अमावास्यां रात्रिञ् जागर्ति …{Loading}…

अमावास्यां रात्रिं जागर्ति १३

14 अपि वा सुप्यादुपरि …{Loading}…

अपि वा सुप्यादुपरि त्वेव न शयीत १४

15 अपि वोपरि शयीत …{Loading}…

अपि वोपरि शयीत ब्रह्मचारी त्वेव स्यात् १५

16 उभयत्र जागरणमेके समामनन्ति …{Loading}…

उभयत्र जागरणमेके समामनन्ति १६

17 आहवनीयागारे गार्हपत्यागारे वा …{Loading}…

आहवनीयागारे गार्हपत्यागारे वा शेते १७

इति तृतीया कण्डिका


  1. TS I.5.10.h. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.7.4.7-8. A Kṣatriya sacrificer should utter the formula with vāyu; A Vaiśya-sacrificer should utter the formula with āditya. ↩︎ ↩︎