०२

01 अयम् पितॄणामग्निरवाड्ढव्या पितृभ्य …{Loading}…

अयं पितॄणामग्निरवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करदिति दक्षिणाग्निम् । अजस्रं त्वा सभापाला विजयभागं समिन्धताम् । अग्ने दीदाय मे सभ्य विजित्यै शरदः शतमिति सभ्यम् । अन्नमावसथीयमभिहराणि शरदः शतम् । आवसथे श्रियं मन्त्रमहिर्बुध्नियो नियच्छत्वित्यावसथ्यम् १

02 इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञम् …{Loading}…

इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रव्रवीमि । इदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमि । इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु जपति २

03 पयस्वतीरोषधय इति पुरा …{Loading}…

पयस्वतीरोषधय इति पुरा बर्हिष आहर्तोर्जायापती अश्नीतः । पुरा वत्सानामपाकर्तोरमावास्यायाम् ३

04 पौर्णमासायोपवत्स्यन्तौ नातिसुहितौ भवतः …{Loading}…

पौर्णमासायोपवत्स्यन्तौ नातिसुहितौ भवतः ४

05 अमाषममांसमाज्येनाश्नीयातान् तदभावे दध्ना …{Loading}…

अमाषममांसमाज्येनाश्नीयातां तदभावे दध्ना पयसा वा ५

06 बर्हिषा पूर्णमासे व्रतमुपैति …{Loading}…

बर्हिषा पूर्णमासे व्रतमुपैति । वत्सेष्ट्यपाकृतेष्ठ्यमावास्यायाम् ६

07 प्रणीतासु प्रणीयमानास्वासन्नेषु वा …{Loading}…

प्रणीतासु प्रणीयमानास्वासन्नेषु वा हविःषु व्रतमुपैतीत्युभयत्र साधारणम् ७

08 अशनमग्न्यन्वाधानं व्रतोपायनमित्येके व्रतोपायनमशनमग्न्यन्वाधानमित्येके …{Loading}…

अशनमग्न्यन्वाधानं व्रतोपायनमित्येके । व्रतोपायनमशनमग्न्यन्वाधानमित्येके । अग्न्यन्वाधानं व्रतोपायनमशनमित्येके ८

09 पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति …{Loading}…

पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा ९

10 अपरेणाहवनीयन् दक्षिणातिक्रामति …{Loading}…

अपरेणाहवनीयं दक्षिणातिक्रामति १०

11 एष एवात ऊर्ध्वं …{Loading}…

एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति ११

इति द्वितीया कण्डिका


  1. TB III.7.4.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.7.4.5-6. ↩︎ ↩︎ ↩︎

  3. TB III.7.4.6. ↩︎ ↩︎