०१

01 याजमानं व्याख्यास्यामः …{Loading}…

याजमानं व्याख्यास्यामः १

02 यज्ञमानस्य ब्रह्मचर्यन् दक्षिणादानन् …{Loading}…

यज्ञमानस्य ब्रह्मचर्यं दक्षिणादानं द्रव्यप्रकल्पनं कामानां कामनम् २

03 प्रत्यगाशिषो मन्त्राञ्जपत्यकरणानुपतिष्ठतेऽनुमन्त्रयते …{Loading}…

प्रत्यगाशिषो मन्त्राञ्जपत्यकरणानुपतिष्ठतेऽनुमन्त्रयते ३

04 पर्वणि च केशश्मश्रु …{Loading}…

पर्वणि च केशश्मश्रु वापयते ४

05 अप्यल्पशो लोमानि वापयत …{Loading}…

अप्यल्पशो लोमानि वापयत इति वाजसनेयकम् ५

06 विद्युदसि विद्य मे …{Loading}…

विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीति यक्ष्यमाणोऽप उपस्पृशति ६

07 तदिदं सर्वयज्ञेषूपस्पर्शनम् भवति …{Loading}…

तदिदं सर्वयज्ञेषूपस्पर्शनं भवति ७

08 अग्निङ् गृह्णामि सुरथं …{Loading}…

अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमं श्वोयज्ञाय रमतां देवताभ्यः । वसून् रूद्रानादित्यानिन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु पौर्णमासं हविरिदमेषां मय्यामावास्यं हविरिदमेषां मयीति यथालिङ्गमाहवनीयेऽन्वाधीयमाने जपति ८

09 अन्तराग्नी पशवो देवसंसदमागमन् …{Loading}…

अन्तराग्नी पशवो देवसंसदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेत्यन्तराग्नी तिष्ठञ्जपति ९

10 इह प्रजा विश्वरूपा …{Loading}…

इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेति गार्हपत्यम् १०

इति प्रथमा कण्डिका


  1. i.e. at the time of New and Full-moon sacrifices. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. VS I.5. ↩︎ ↩︎

  3. For these verses see TB II.7.4.3-4. ↩︎