२०

01 या अप्स्वन्तर्देवतास्ता इदं ...{Loading}...

या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छ स्वाहेत्यद्भिरभ्यवनीयाचम्य घसीना मे मा सम्पृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमृशति १

02 वाङ्म आसन्निति यथालिङ्गमङ्गानि ...{Loading}...

वाङ्म आसन्निति यथालिङ्गमङ्गानि २

03 अरिष्टा विश्वानीत्यवशिष्टानि ...{Loading}...

अरिष्टा विश्वानीत्यवशिष्टानि ३

04 प्रक्षाल्य पात्रम् पूरयित्वा ...{Loading}...

प्रक्षाल्य पात्रं पूरयित्वा दिशो जिन्वेति पराचीनं निनयति ४

05 माञ् जिन्वेत्यभ्यात्मम् ...{Loading}...

मां जिन्वेत्यभ्यात्मम् ५

06 यत्रास्मै ब्रह्मभागमाहरति तम् ...{Loading}...

यत्रास्मै ब्रह्मभागमाहरति तं प्रतिगृह्य नासंस्थिते भक्षयति ६

07 ब्रह्मन्ब्रह्मासि ब्रह्मणे त्वाहुताद्य ...{Loading}...

ब्रह्मन्ब्रह्मासि ब्रह्मणे त्वाहुताद्य मा मा हिंसीरहुतो मह्यं शिवो भवेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ७

08 ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव ...{Loading}...

ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यॐ प्रतिष्ठेति प्रसौति ८

09 भूमिर्भूमिमगान्माता मातरमप्यगात् भूयास्म ...{Loading}...

भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किं च यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत ९

10 ब्रह्मभागम् प्राश्यायाडग्निर्जातवेदाः प्र ...{Loading}...

ब्रह्मभागं प्राश्यायाडग्निर्जातवेदाः प्र णो यक्ष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्येत्याहवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति १०

11 एवं विहितमिष्टिपशुबन्धानाम् ब्रह्मत्वम् ...{Loading}...

एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वं ११

इति विंशी कण्डिका इति षष्ठः पटलः इति तृतीयः प्रश्नः


  1. VSK II.3.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. VSK II.3.6. ↩︎ ↩︎ ↩︎

  3. TS III.2.7.a; II.6.9.3. ↩︎