१९

01 प्रणय यज्ञन् देवता ...{Loading}...

प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ प्रणयेति प्रसौति १

02 सर्वेष्ठ्यामन्त्रणेष्ठ्येवम् प्रसवस्तेन कर्मणा ...{Loading}...

सर्वेष्ठ्यामन्त्रणेष्ठ्येवं प्रसवस्तेन कर्मणा यस्मिन्नामन्त्रयते २

03 प्रोक्ष यज्ञमिति हविष ...{Loading}...

प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षे । बृहस्पते परिगृहाण वेदिं स्वगा वो देवाः सदनानि सन्तु । तस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा नः पृथिवी देव्यस्त्वित्युरस्मिन्परिग्राहे । प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् । वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येष्टिति प्रवरे ३

04 देवता वर्धय त्वमिति ...{Loading}...

देवता वर्धय त्वमिति सर्वत्रानुषजति ४

05 मित्रस्य त्वा चक्षुषा ...{Loading}...

मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते ५

06 ऋतस्य पथा पर्येहीति ...{Loading}...

ऋतस्य पथा पर्येहीति परिह्रियमाणं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणम् ६

07 सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा ...{Loading}...

सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वादब्धेन त्वा चक्षुषावेक्ष इत्यवेक्ष्य सावित्रेणाङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायाग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामीत्यसम्म्लेत्यापिगिरति ७

इत्येकोनविंशी कण्डिका


  1. See I.19.1 ↩︎ ↩︎ ↩︎ ↩︎

  2. See II.18.1. ↩︎ ↩︎ ↩︎ ↩︎

  3. See II. 11.10. ↩︎

  4. See II.15.3. ↩︎

  5. See II.3.7. ↩︎