01 प्रणय यज्ञन् देवता …{Loading}…
प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ प्रणयेति प्रसौति १
थिते
- with praṇaya yajñam.. he (the Brahman) impells the Adhvaryu.
प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ प्रणयेति प्रसौति १
02 सर्वेष्ठ्यामन्त्रणेष्ठ्येवम् प्रसवस्तेन कर्मणा …{Loading}…
सर्वेष्ठ्यामन्त्रणेष्ठ्येवं प्रसवस्तेन कर्मणा यस्मिन्नामन्त्रयते २
थिते
- In all the calls this is the way of impelling (which should contain) the mention of that work in which the other priest calls him.
सर्वेष्ठ्यामन्त्रणेष्ठ्येवं प्रसवस्तेन कर्मणा यस्मिन्नामन्त्रयते २
03 प्रोक्ष यज्ञमिति हविष …{Loading}…
प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षे । बृहस्पते परिगृहाण वेदिं स्वगा वो देवाः सदनानि सन्तु । तस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा नः पृथिवी देव्यस्त्वित्युरस्मिन्परिग्राहे । प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् । वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येष्टिति प्रवरे ३
थिते
- He utters proksa yajnam… at the time of sprinkling water on the oblation-material1 and fuel and barhis-grass;2 He utters br̥haspate parigr̥hāṇa… at the time of second tracing of the altar. He impells with prajāpate’nubrūhi… the Hotr̥ (who) is going to recite the Samidheni (enkindling verses)3; at the time of Pravara4 he utters vacaspate vācamāśrāvayaitām…
प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षे । बृहस्पते परिगृहाण वेदिं स्वगा वो देवाः सदनानि सन्तु । तस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा नः पृथिवी देव्यस्त्वित्युरस्मिन्परिग्राहे । प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् । वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येष्टिति प्रवरे ३
04 देवता वर्धय त्वमिति …{Loading}…
देवता वर्धय त्वमिति सर्वत्रानुषजति ४
थिते
- Everywhere he adds the words devatā vardhaya tvam…1
देवता वर्धय त्वमिति सर्वत्रानुषजति ४
05 मित्रस्य त्वा चक्षुषा …{Loading}…
मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते ५
मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते ५
06 ऋतस्य पथा पर्येहीति …{Loading}…
ऋतस्य पथा पर्येहीति परिह्रियमाणं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणम् ६
थिते
- With r̥tasya pathā paryehi… (he looks at the Prāśitra) being carried around (and) with sūryasya tvā сakṣuṣā2 (he looks at the Prāśitra) being brought towards him.
ऋतस्य पथा पर्येहीति परिह्रियमाणं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणम् ६
07 सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा …{Loading}…
सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वादब्धेन त्वा चक्षुषावेक्ष इत्यवेक्ष्य सावित्रेणाङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायाग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामीत्यसम्म्लेत्यापिगिरति ७
थिते
- With a formula addressed to Savitr̥1 having accepted (the Prāśitra), with pr̥thivyāstvā nābhau sādayāmi having scattered the grass-blades (in a place) within the altar, having placed (the vessel of Prāśitra) with its handle to the east, with adabdhena tvā cakṣusāvekṣe2 having looked at it, with a formula addressed to Savitr̥ having taken (the Prāśitra) by means the thumb and the ring-finger with agnestvāsyena prāśnāmi…5 he swallows the Praśitra without allowing his teeth to touch it.
सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वादब्धेन त्वा चक्षुषावेक्ष इत्यवेक्ष्य सावित्रेणाङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायाग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामीत्यसम्म्लेत्यापिगिरति ७
इत्येकोनविंशी कण्डिका