१८

01 ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोः ...{Loading}...

ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोः १

02 तं वृणीते भूपते ...{Loading}...

तं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति २

03 वृतो जपति ...{Loading}...

वृतो जपति ३

04 अहम् भूपतिरहम् भुवपतिरहम् ...{Loading}...

अहं भूपतिरहं भुवपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापति॒र्विश्वेभ्यो देवेभ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ब्रह्म भूर्भुवः सुवर्बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपायेत्युक्त्वापरेणाहवनीयं दक्षिणातिक्रम्य निरस्तः पराग्वसुः सह पाप्मनोति ब्रह्मसदनात्तृणं निरस्येदमहमर्वाग्वसोः सदने सीदामि प्रसूतो देवेन सवित्रा बृहस्पतेः सदने सीदामि तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय तत्पृथिव्या इत्युपविशति ४

05 आहवनीयमभ्यावृत्यास्ते ...{Loading}...

आहवनीयमभ्यावृत्यास्ते ५

06 कर्मणिकर्मणि वाचं यच्छति ...{Loading}...

कर्मणिकर्मणि वाचं यच्छति ६

07 मन्त्रवत्सु वा कर्मसु ...{Loading}...

मन्त्रवत्सु वा कर्मसु । यथाकामी तूष्णीकेषु ७

08 यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं ...{Loading}...

यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं व्याहृतीश्च जपित्वा वाचं यच्छेत् ८

09 ब्रह्मन्नपः प्रणेष्यामीत्युच्यमाने ...{Loading}...

ब्रह्मन्नपः प्रणेष्यामीत्युच्यमाने ९

इत्यष्टादशी कण्डिका


  1. According to TS III.5.2.1 and Baudhāśs II.3 he should be belonging to Vasiṣṭha-family; but according to Āpśs XIV. 8.1 this refers only to a soma-sacrifice. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS III.7.6.1. ↩︎ ↩︎