१७

01 यावत्यः कुम्भ्यस्तावन्तो ब्राह्मणा ...{Loading}...

यावत्यः कुम्भ्यस्तावन्तो ब्राह्मणा दक्षिणतौपवीतिन उपोत्थाय कुम्भीभ्यः पात्राणि पूरयित्वा तैरध्वर्युं जुह्वतमनु जुह्वति १

02 स्विष्टकृद्भक्षाश्च न विद्यन्ते ...{Loading}...

स्विष्टकृद्भक्षाश्च न विद्यन्ते २

03 समानमत ऊर्ध्वम् सन्तिष्ठते ...{Loading}...

समानमत ऊर्ध्वम् । सन्तिष्ठते साकम्प्रस्थायीयः ३

04 दाक्षायणयज्ञेन सुवर्गकामः ...{Loading}...

दाक्षायणयज्ञेन सुवर्गकामः ४

05 द्वे पौर्णमास्यौ द्वे ...{Loading}...

द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत ५

06 आग्नेयोऽष्टाकपालो ऽग्नीषोमीय एकादशकपालः ...{Loading}...

आग्नेयोऽष्टाकपालो ऽग्नीषोमीय एकादशकपालः पूर्वस्यां पौर्णमास्यामाग्नेयोऽष्टाकपाल ऐन्द्रं दध्युत्तरस्याम् । आग्नेयोऽष्टाकपाल ऐन्द्राग्न एकादशकपालः पूर्वस्याममावास्यायामाग्नेयोऽष्टाकपालो मैत्रावरुण्यामिक्षा द्वितीयोत्तरस्याम् ६

07 व्यावृत्काम इत्युक्तम् ...{Loading}...

व्यावृत्काम इत्युक्तम् ७

08 ऋत्वे वा जायामुपेयात् ...{Loading}...

ऋत्वे वा जायामुपेयात् ८

09 सोऽयन् दर्शपूर्णमासयोः प्रक्रमे ...{Loading}...

सोऽयं दर्शपूर्णमासयोः प्रक्रमे विकल्पोऽनेन दर्शपूर्णमासाभ्यां वा यजेत ९

10 तेन पञ्चदश वर्षाणीष्ट्वा ...{Loading}...

तेन पञ्चदश वर्षाणीष्ट्वा विरमेद्यजेत वा १०

11 सन्तिष्ठते दाक्षायणयज्ञः ...{Loading}...

सन्तिष्ठते दाक्षायणयज्ञः ११

12 एतेनैडादधः सार्वसेनियज्ञो वसिष्ठयज्ञः ...{Loading}...

एतेनैडादधः सार्वसेनियज्ञो वसिष्ठयज्ञः शौनकयज्ञश्च व्याख्याताः १२

इति सप्तदशी कण्डिका इति पञ्चमः पटलः


  1. The milk is offered without any remnant. cf. TS 11.5.4.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. This sacrifice was performed by Dakṣa who was the son of Parvata, and therefore it is called after him–cf. KB IV.4; ŚB II.4.4.6. ↩︎ ↩︎

  3. See KB IV.8; Sānkhāśs III. 11.1-3. ↩︎

  4. See KB IV.7. ↩︎