१५

01 संस्थाप्य पौर्णमासीमिन्द्राय वैमृधाय ...{Loading}...

संस्थाप्य पौर्णमासीमिन्द्राय वैमृधाय पुरडाशमेकादशकपालमनुनिर्वपति १

02 समानतन्त्रमेके समामनन्ति ...{Loading}...

समानतन्त्रमेके समामनन्ति २

03 तस्य याथाकामी प्रक्रमे ...{Loading}...

तस्य याथाकामी प्रक्रमे । प्रक्रमात्तु नियम्यते ३

04 सप्तदशसामिधेनीको यथाश्रद्धदक्षिणः ...{Loading}...

सप्तदशसामिधेनीको यथाश्रद्धदक्षिणः ४

05 शर्धवत्यौ संयाज्ये अग्ने ...{Loading}...

शर्धवत्यौ संयाज्ये । अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्यं सुयममाकृणुष्ठ्य शत्रूयतामभितिष्ठा महांसि । वातोपधूत इषिरो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो यथा पृथक् शर्धांस्यग्ने अजराणि धक्ष्यस इति ५

06 अग्नीषोमीयमेकादशकपालम् पौर्णमास्यामनुनिर्वपत्यादित्यङ् घृते ...{Loading}...

अग्नीषोमीयमेकादशकपालं पौर्णमास्यामनुनिर्वपत्यादित्यं घृते चरुं सारस्वतं चरुममावास्यायां पौष्णं चैन्द्रमेकादशकपालममावास्यायां पौर्णमास्यां च भ्रातृव्यवतोऽभिचरतो वा ६

07 इन्द्राय त्रात्रे चरुन् ...{Loading}...

इन्द्राय त्रात्रे चरुं द्वितीयं वैमृधस्य कुर्याद्यो मृत्योर्ज्यान्या वा बिभीयात् । मुष्करो दक्षिणा ७

08 इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालमनुनिर्वपेत्य्प्रजाकामः पशुकामः ...{Loading}...

इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालमनुनिर्वपेत्य्प्रजाकामः पशुकामः सजातकामः ८

09 एतं वानुनिर्वाप्यङ् कुर्वीत ...{Loading}...

एतं वानुनिर्वाप्यं कुर्वीत ९

10 इतरौ वा ...{Loading}...

इतरौ वा १०

11 यमभीव संशयीत ...{Loading}...

यमभीव संशयीत ११

इति पञ्चदशी कण्डिका


  1. Cf. TS II.5.3.1; II.5.4.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. RV X.91.7. ↩︎