१४

01 यद्यभिचरेद्योपवेषे शुक् सामुमृच्छतु ...{Loading}...

यद्यभिचरेद्योपवेषे शुक् सामुमृच्छतु यं द्विष्म इत्यथास्मै नामगृह्य प्रहरति १

02 निरमुन् नुद ओकसः ...{Loading}...

निरमुं नुद ओकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् । इहि तिस्रः परावत इहि पञ्च जनाँ अति । इहि तिस्रोऽति रोचना यावत्सूर्यो असद्दिवि । परमां त्वा परावतमिन्द्रो नयतु वृत्रहा यतो न पुनरायसि शश्वतीभ्यः समाभ्य इति हतोऽसाववधिष्मामुमित्येताभिः पञ्चभिर्निरस्येन्निखनेद्वा २

03 अवसृष्टः परापत शरो ...{Loading}...

अवसृष्टः परापत शरो ब्रह्म संशितः । गच्छामित्रान्प्रविश मैषां कञ्चनोच्छिष इति वा ३

04 यानि घर्मे कपालानीति ...{Loading}...

यानि घर्मे कपालानीति चतुष्पदयर्चा कपालानि विमुच्य सङ्ख्यायोद्वासयति ४

05 सन्तिष्ठेते दर्शपूर्णमासौ ...{Loading}...

सन्तिष्ठेते दर्शपूर्णमासौ ५

06 शंय्वन्तं वाहवनीये संस्थापयेदाज्येडान्तङ् ...{Loading}...

शंय्वन्तं वाहवनीये संस्थापयेदाज्येडान्तं गार्हपत्ये । इडान्तं वाहवनीये शंय्वन्तं गार्हपत्ये ६

07 यदि शंय्वन्तम् पश्चात्स्याद्वेदात्तृणमपादाय ...{Loading}...

यदि शंय्वन्तं पश्चात्स्याद्वेदात्तृणमपादाय जुह्वामग्रमञ्ज्यात्स्रुवे मध्यमुपभृति वाज्यस्थाल्यां मूलम् । तस्य प्रस्तरवत्कल्पः सूक्तवाकाद्या शंयुवाकात् ७

08 स्वर्गकामो दर्शपूर्णमासौ ...{Loading}...

स्वर्गकामो दर्शपूर्णमासौ ८

09 एककामः सर्वकामो वा ...{Loading}...

एककामः सर्वकामो वा ९

10 युगपत्कामयेताहारपृथक्त्वे वा ...{Loading}...

युगपत्कामयेताहारपृथक्त्वे वा १०

11 ताभ्यां यावज्जीवं यजेत ...{Loading}...

ताभ्यां यावज्जीवं यजेत ११

12 त्रिंशतं वा वर्षाणि ...{Loading}...

त्रिंशतं वा वर्षाणि १२

13 जीर्णो वा विरमेत् ...{Loading}...

जीर्णो वा विरमेत् १३

14 द्वे पौर्णमास्यौ द्वे ...{Loading}...

द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत यः कामयेतर्ध्रु यामित्युक्त्वाहैकामेव यजेतेति १४

इति चतुर्दशी कण्डिका इति चतुर्थः पटलः


  1. See for this Sūtra TB III.3.11.2-3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.7.k. ↩︎ ↩︎