१३

01 अयाडग्निर्जातवेदा अन्तरः पूर्वो ...{Loading}...

अयाडग्निर्जातवेदा अन्तरः पूर्वो अस्मन्निषद्य । सन्वन्सनिं सुविमुचा विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्च भद्रम् ॥ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता पुरुत्रा । तेभ्यो न इन्द्रः सवितोत विष्णुर्विश्वे देवा मुञ्चन्तु मरुतः स्वस्त्या । यो भूतानामुद्बुध्यस्वाग्न उदुत्तममिति व्याहृतिभिर्विहृताभिः समस्ताभिश्च हुत्वा १

02 पूर्ववद्ध्रुवामाप्याय्य देवा गातुविद ...{Loading}...

पूर्ववद्ध्रुवामाप्याय्य देवा गातुविद इत्यन्तर्वेद्यूर्ध्वस्तिष्ठन्ध्रुवया समिष्टयजुर्जुहोति २

03 मध्यमे स्वाहाकारे बर्हिरनुप्रहरति ...{Loading}...

मध्यमे स्वाहाकारे बर्हिरनुप्रहरति ३

04 यदि यजमानः प्रवसेत्प्रजापतेर्विभान्नाम ...{Loading}...

यदि यजमानः प्रवसेत्प्रजापतेर्विभान्नाम लोक इति ध्रुवायां यजमानभागमवधाय समिष्टयजुषा सह जुहुयात् ४

05 अभिस्तृणीहि परिधेहि वेदिञ् ...{Loading}...

अभिस्तृणीहि परिधेहि वेदिं जामिं मा हिंसीरमुया श्याना । होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रध्न इति होतृषदनैर्वेदिमभिस्तीर्य को वोऽयोक्षीत्स वो विमुञ्चत्वित्यन्तर्वेदि प्रणीता आसाद्य विमुञ्चति ५

06 यन् देवा मनुष्येषूपवेषमधारयन् ...{Loading}...

यं देवा मनुष्येषूपवेषमधारयन् । ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरु । उपवेषोपविड्ढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगान्कुर्विति पुरस्तात्प्रत्यञ्चमुत्कर उपवेषं स्थविमत उपगूहति ६

इति त्रयोदशी कण्डिका


  1. bhūḥ, bhuvaḥ, svaḥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Thus bhūḥ svāhā, bhūaḥ svāhā, svaḥ svāhā, ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. bhur bhuvaḥ svaḥ svāhā. The sentnence in this Sūtra is incomplete. See the next Sūtra. ↩︎