01 आज्ञातमनाज्ञातममतञ् च मतञ् ...{Loading}...
आज्ञातमनाज्ञातममतं च मतं च यत् । जातवेदः सन्धेहि त्वं हि वेत्थ यथातथम् । यदकर्म यन्नाकर्म यदत्यरेचि यन्नात्यरेचि । अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु । यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि । स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः । आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम । अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथम् । पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथम् । यत्पाकत्रा मनसा दीवदक्षा न यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति । यद्विद्वांसो यदविद्वांसो मुग्धाः कुर्वन्त्यृत्विजः । अग्निर्मा तस्मादेनसः श्रद्धा देवी च मुञ्चताम् १
सर्वाष् टीकाः ...{Loading}...
थिते
- ajñātamanājñātamamatam….,1
मूलम् ...{Loading}...

इति द्वादशी कण्डिका
-
For all these verses see TB III.7.11.4-5. ↩︎