01 यथेतमाहवनीयङ् गत्वा जुह्वा ...{Loading}...
यथेतमाहवनीयं गत्वा जुह्वा स्रुवेण वा सर्वप्रायश्चित्तानि जुहोति १
मूलम् ...{Loading}...

02 ब्रह्म प्रतिष्ठा मनस ...{Loading}...
ब्रह्म प्रतिष्ठा मनस इत्येषा । आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् । यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माँ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तं निधेतन । ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयं समुद्र उत विश्वभेषजः स्वाहाकृतस्य समु तृप्णुतर्भुवः । उद्वयं तमसस्पर्युदु त्यं चित्रमिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्ययासन्मनसा हितः । अयासन्हव्यमूहिषेऽया नो धेहि भेषजम् । प्रजापत इत्येषा । इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा । भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा । दौरार्द्धै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहा । ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा । अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजम् । यदस्मिन्यज्ञेऽन्तरगाम मन्त्रतः कर्मतो वा । अनयाहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन २
सर्वाष् टीकाः ...{Loading}...
थिते
- The formulae to be used at this time are as follows: brahma pratiṣṭhā…..,1
मूलम् ...{Loading}...
ब्रह्म प्रतिष्ठा मनस इत्येषा । आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् । यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माँ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तं निधेतन । ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयं समुद्र उत विश्वभेषजः स्वाहाकृतस्य समु तृप्णुतर्भुवः । उद्वयं तमसस्पर्युदु त्यं चित्रमिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्ययासन्मनसा हितः । अयासन्हव्यमूहिषेऽया नो धेहि भेषजम् । प्रजापत इत्येषा । इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा । भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा । दौरार्द्धै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहा । ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा । अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजम् । यदस्मिन्यज्ञेऽन्तरगाम मन्त्रतः कर्मतो वा । अनयाहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन २
इत्येकादशी कण्डिका