१०

01 फलीकरणहोमम् पूर्वमेतद्वा विपरीतम् ...{Loading}...

फलीकरणहोमं पूर्वमेतद्वा विपरीतम् । चतुर्गृहीत आज्ये फलीकरणानोप्याग्नेऽदभ्धायोऽशीततनो इति जुहोति । एवं पिष्टलेपानुलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहेति १

02 या सरस्वती विशोभगीना ...{Loading}...

या सरस्वती विशोभगीना तस्यै स्वाहा या सरस्वती वेशभगीना तस्यै स्वाहेन्द्रोपानस्यकेहमनसो वेशान्कुरु सुमनसः सजातान्स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति २

03 वेदोऽसीति वेदं होता ...{Loading}...

वेदोऽसीति वेदं होता पत्न्या उपस्थे त्रिः प्रास्यति ३

04 निर्द्विषन्तन् निररातिन् नुदेतीतरा ...{Loading}...

निर्द्विषन्तं निररातिं नुदेतीतरा प्रास्तम्प्रास्तं प्रतिनिरस्यति ४

05 तन्तुन् तन्वन्निति वेदं ...{Loading}...

तन्तुं तन्वन्निति वेदं होता गार्हपत्यात्प्रक्रम्य सन्ततमाहवनीयात्स्तृणात्या वा वेदेः ५

06 इमं विष्यामीति पत्नी ...{Loading}...

इमं विष्यामीति पत्नी योक्त्रपाशं विमुञ्चते ६

07 तस्याः सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयनि ...{Loading}...

तस्याः सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयनि ७

08 समायुषा सम् प्रजयेत्यानीयमाने ...{Loading}...

समायुषा सं प्रजयेत्यानीयमाने जपति ८

09 निनीय मुखं विमृज्योत्तिष्ठति ...{Loading}...

निनीय मुखं विमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासमिति ९

इति दशमी कण्डिका इति तृतीयः पटलः


  1. TS I. 1.13.s-t. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.7.6.21. ↩︎ ↩︎ ↩︎

  3. For this altarnative see ŚB I.9.2.4. ↩︎