०९

01 देवानाम् पत्नीरग्निङ् गृहपतिमिति ...{Loading}...

देवानां पत्नीरग्निं गृहपतिमिति १

02 दक्षिणतस्त्वष्टारमुत्तरतो वा मध्येऽग्निङ् ...{Loading}...

दक्षिणतस्त्वष्टारमुत्तरतो वा मध्येऽग्निं गृहपतिम् २

03 आहवनीयतः परिश्रिते देवपत्नीरपरिश्रिते ...{Loading}...

आहवनीयतः परिश्रिते देवपत्नीरपरिश्रिते वा ३

04 राकाम् पुत्रकामो यजेत ...{Loading}...

राकां पुत्रकामो यजेत सिनीवालीं पशुकामः कुहूं पुष्टिकामः ४

05 नित्यवदेके समामनन्ति ...{Loading}...

नित्यवदेके समामनन्ति ५

06 पुरस्ताद्देवपत्नीभ्य एता एके ...{Loading}...

पुरस्ताद्देवपत्नीभ्य एता एके समामनन्ति । उपरिष्टाद्वा ६

07 पूर्ववद्धोतुरङ्गुलिपर्वणी अङ्कोपस्पृष्टोदकाय होतुर्हस्ते ...{Loading}...

पूर्ववद्धोतुरङ्गुलिपर्वणी अङ्कोपस्पृष्टोदकाय होतुर्हस्ते चतुर आज्यबिन्दूनिडामवद्यति षडग्नीध ७

08 उपहूयमानामन्वारभन्तेऽध्वर्युराग्नीध्रः पत्नी च ...{Loading}...

उपहूयमानामन्वारभन्तेऽध्वर्युराग्नीध्रः पत्नी च ८

09 उपहूताम् प्राश्नीतो होताग्नीध्रश्च ...{Loading}...

उपहूतां प्राश्नीतो होताग्नीध्रश्च ९

10 अत्र स्रुवेण सम्पत्नीयञ् ...{Loading}...

अत्र स्रुवेण सम्पत्नीयं जुहोति पत्न्यामन्वारब्धायां सं पत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम् । सञ्जानानौ विजहतामरातीर्दिवि ज्योतिरजरमारभेतां स्वाहेति १०

11 पुरस्ताद्देवपत्नीभ्य एतामेके समामनन्त्युपरिष्टाद्वा ...{Loading}...

पुरस्ताद्देवपत्नीभ्य एतामेके समामनन्त्युपरिष्टाद्वा । उपरिष्टाद्वा पिष्टलेपफलीकरणहोमाभ्याम् ११

12 दक्षिणाग्नाविध्मप्रव्रश्चनान्यभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति ...{Loading}...

दक्षिणाग्नाविध्मप्रव्रश्चनान्यभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति १२

इति नवमी कण्डिका


  1. Thus the place of Gārhaptya is separated by means of a mat and then the offering is performed. Cf. SB I.9.2.12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. III.2.10. ↩︎ ↩︎

  3. See I.20.12-13. ↩︎