०८

01 आज्यलेपान्प्रक्षाल्य सस्रुवे जुहूपभृतावध्वर्युरादत्ते ...{Loading}...

आज्यलेपान्प्रक्षाल्य सस्रुवे जुहूपभृतावध्वर्युरादत्ते वेदं होता स्फ्यमाज्यस्थालीमुदकमण्डलुं चाग्नीध्रः १

02 आग्नीध्रप्रथमाः पत्नीः संयाजयिष्यन्तः ...{Loading}...

आग्नीध्रप्रथमाः पत्नीः संयाजयिष्यन्तः प्रत्यञ्चो यन्ति २

03 अग्रेण गार्हपत्यन् दक्षिणेनाध्वर्युः ...{Loading}...

अग्रेण गार्हपत्यं दक्षिणेनाध्वर्युः प्रतिपद्यत उत्तरेणेतरौ ३

04 अग्नेर्वामपन्नगृहस्य सदसि सादयामीति ...{Loading}...

अग्नेर्वामपन्नगृहस्य सदसि सादयामीति कस्तम्भ्यां स्रुचौ सादयित्वा धुरि धुर्यौ पातमिति युगधुरोः प्रोहति ४

05 यदि पात्र्या निर्वपेदेताभ्यामेव ...{Loading}...

यदि पात्र्या निर्वपेदेताभ्यामेव यजुर्भ्यां स्फ्ये स्रुचौ सादयेत् ५

06 स्रुग्भ्यां स्रुवाभ्यां वा ...{Loading}...

स्रुग्भ्यां स्रुवाभ्यां वा पत्नीः संयाजयन्ति ६

07 वेदमुपभृतङ् कृत्वा जुह्वा ...{Loading}...

वेदमुपभृतं कृत्वा जुह्वा स्रुवेण वेत्येके ७

08 अपरेण गार्हपत्यमूर्ध्वज्ञव आसीना ...{Loading}...

अपरेण गार्हपत्यमूर्ध्वज्ञव आसीना ध्वानेनोपांशु वा पत्नीः संयाजयन्ति ८

09 दक्षिणऽध्वर्युरुत्तर आग्नीध्रो मध्य ...{Loading}...

दक्षिणऽध्वर्युरुत्तर आग्नीध्रो मध्य होता ९

10 आज्येन सोमत्वष्टाराविष्ट्वा जाघन्या ...{Loading}...

आज्येन सोमत्वष्टाराविष्ट्वा जाघन्या पत्नीः संयाजयन्त्याज्यस्य वा यथागृहीतेन १०

11 सोमायानुब्रूहि सोमं यजेति ...{Loading}...

सोमायानुब्रूहि सोमं यजेति सम्प्रैषावुत्तरार्धे जुहोति ११

12 एवमितरांस्त्वष्टारम् ...{Loading}...

एवमितरांस्त्वष्टारम् १२

इत्यष्टमी कण्डिका


  1. for this Sūtra cf. in general ŚB 1.9.2.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For the formulae see the Sītra 4. For Sūtra 5 cf. ŚB I.8.3.26. ↩︎ ↩︎ ↩︎

  3. For this Sūtra cf. ŚB I.8.3.26. ↩︎