०७

01 न्यञ्चं हस्तम् पर्यावर्तयन् ...{Loading}...

न्यञ्चं हस्तं पर्यावर्तयन् १

02 अग्नीद्गमयेति सम्प्रेष्यति ...{Loading}...

अग्नीद्गमयेति सम्प्रेष्यति २

03 त्रिरञ्जलिनाग्नीध्रोऽविष्वञ्चम् प्रस्तरमूर्ध्वमुद्यौति रोहितेन ...{Loading}...

त्रिरञ्जलिनाग्नीध्रोऽविष्वञ्चं प्रस्तरमूर्ध्वमुद्यौति रोहितेन त्वाग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रम् ३

04 अथैनमाहाग्नीध्रोऽनुप्रहरेति ...{Loading}...

अथैनमाहाग्नीध्रोऽनुप्रहरेति ४

05 यत्प्रस्तरात्तृणमपात्तन् तदनुप्रहरति स्वगा ...{Loading}...

यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति स्वगा तनुभ्य इति ५

06 एतदेतदिति त्रिरङ्गुल्या निर्दिश्याग्निमभिमन्त्रयत ...{Loading}...

एतदेतदिति त्रिरङ्गुल्या निर्दिश्याग्निमभिमन्त्रयत आयुष्मा अग्नेऽस्यायुर्मे पाहीति ६

07 ध्रुवासीत्यन्तर्वेदि पृथिवीमभिमृशति ...{Loading}...

ध्रुवासीत्यन्तर्वेदि पृथिवीमभिमृशति ७

08 अथैनमाहाग्नीध्रः संवदस्वेति ...{Loading}...

अथैनमाहाग्नीध्रः संवदस्वेति ८

09 अगानग्नीदित्यध्वर्युराह अगन्नित्याग्नीध्रः श्रावयेत्यध्वर्युः ...{Loading}...

अगानग्नीदित्यध्वर्युराह । अगन्नित्याग्नीध्रः । श्रावयेत्यध्वर्युः । श्रौषडित्याग्नीध्रः ९

10 मध्यमम् परिधिमन्वारभ्य सम्प्रेष्यति ...{Loading}...

मध्यमं परिधिमन्वारभ्य सम्प्रेष्यति स्वगा दैव्याहोतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति १०

11 अनूच्यमाने शंयुवाक आहवनीये ...{Loading}...

अनूच्यमाने शंयुवाक आहवनीये परिधीन्प्रहरति ११

12 यम् परिधिम् पर्यधत्था ...{Loading}...

यं परिधिं पर्यधत्था इति मध्यमम् । यज्ञस्य पाथ उपसमितमितीतरौ १२

13 उत्तरार्ध्यस्याग्रमङ्गारेषूपोहति ...{Loading}...

उत्तरार्ध्यस्याग्रमङ्गारेषूपोहति १३

14 यजमानम् प्रथतेति परिधीनभिमन्त्र्य ...{Loading}...

यजमानं प्रथतेति परिधीनभिमन्त्र्य जुह्वामुपभृतोऽग्रमवधाय संस्रावभागा इति संस्रावेणाभिजुहोति १४

15 अत्रैवर्त्विजो हविः शेषान्भक्षयन्ति ...{Loading}...

अत्रैवर्त्विजो हविः शेषान्भक्षयन्ति १५

इति सप्तमी कण्डिका इति द्वितीयः पटलः


  1. TS I.6.4.p; See also TS I.7.4.3-4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. This formula is not found in any earlier text. ↩︎ ↩︎ ↩︎